64034: शास इदङ्हलोः =================== **Padacheda:** शासः | S | 6 | 1 | इत् | S | 1 | 1 | अङ्-हलोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- Before the Aorist in अङ् and before an affix beginning with a consonant having an indicatory क् or ङ् there is the substitution of ई for the vowel of शास्। Vasu English Translation ------------------------ Before the Aorist in अङ् and before an affix beginning with a consonant having an indicatory क् or ङ् there is the substitution of ई for the vowel of शास्। Thus अन्वशिषत्, अन्वशिषताम् and अन्वशिषन्; so also शिष्टः (with क्त), शिष्टवान् (with क्तवतु), तौ शिष्टः वयं शिष्मः (with the tense-affixes तः and मः which are ङित् by (1.2.4)). The स is changed to ष by (8.3.60). Why do we say 'before the affixes of अ Aorist and consonant affixes'? Observe शासति, शशासतु, शशासुः ॥ Vart:- There is the substitution of इ for the vowel of शास् before the affix क्वि ॥ As आर्यशीः = आर्यान् शास्ति ॥ So also मित्रशीः ॥ The form is thus evolved, शास् + क्वि = शिस् + ० = शिर + ० = शीः (the short इ being lengthened by (8.2.76)). The root शास् is that root which takes अङ् aorist; namely the second *Adadi* शास् (शासु अनुशिष्टौ), and not the *Bhvadi* and the first *Adadi* शास (आङ शासु इच्छायाम्) Therefore not here आशास्ते, आशास्यमानः ॥ Vart:- But before क्विप्, this शास् also is changed, as आशीः, आशिषौ, आशिषः ॥ Or this is an irregular form indicated by the author in the word क्षियाशीः used in (8.2.104). Bhashya ------- शास इदङ्हलोः (3032) (6539 उपसंख्यानवार्तिकम् ॥ 1 ॥) - शास इत्त्वे आशासः क्वावुपसंख्यानम् - शास इत्त्वे आशासः क्वावुपसंख्यानं कर्तव्यम् । आशीरिति ॥ (नियमार्थत्वोपपादकभाष्यम्) किं पुनरिदं नियमार्थम्, आहोस्विद्विध्यर्थम् ? कथं नियमार्थं स्यात्, कथं वा विध्यर्थम् ? यदि तावच्छासिमात्रस्य ग्रहणम्, ततो नियमार्थम् । अथ हि यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, ततो विध्यर्थम् ॥ (नियमासम्भवदर्शकं भाष्यम्) यद्यपि शासिमात्रग्रहणम्, एवमपि विध्यर्थमेव । कथम् ? । अङि हलादावुच्यते, न चात्र हलादिं पश्यामः । ननु च क्विबेव हलादिः । क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । इदमिह सम्प्रधार्यम् - क्विलोपः क्रियताम्, अङ्हलोरित्त्वमिति । किमत्र कर्तव्यम् ? परत्वादङ्हलोरित्त्वम् । नित्यः क्विलोपः, कृतेऽप्यङ्हलोरित्त्वे प्राप्नोत्यकृतेऽपि । नित्यत्वात् क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ (नियामकत्वोपपादकभाष्यम्) यदि वा कानि चिद्वर्णाश्रयाण्यपि लक्षणेन भवन्ति, तथा चेदमपि भविष्यति । अथवैवं वक्ष्यामि - शास इदङ्हलोः । ततः - क्वौ । क्वौ च शास इद्भवति । आर्यशीः, मित्रशीः । ततः - आङः । आङ्पूर्वाच्च क्वौ शास इद्भवति । आशीरिति । इदमिदानीं किमर्थम् ? नियमार्थम् । आङ्पूर्वाच्छासेः क्वावेव । क्व मा भूत् ? आशास्ते, आशास्यते, आशास्यमाने - इति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अविशेषेण शास इद्भवतीत्युक्त्वा ततोऽङीति वक्ष्यामि । तन्नियमार्थं भविष्यति - अङ्येवाजादौ, नान्यस्मिन्नजादौ ॥ (अनिष्टाक्षेपभाष्यम्) इहापि तर्हि नियमादित्वं प्राप्नोति - आशास्ते, आशास्यते, आशास्यमान इति ॥ (समाधानभाष्यम्) यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, न चैतस्माच्छासेरङि्वहितः । कथमाशीरिति ? निपातनात्सिद्धम् । किं निपातनम् ? क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् (8.2.104) इति ॥ Kashika ------- शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ किति — शिष्टः। शिष्टवान्। ङिति — आवां शिष्वः। वयं शिष्मः। इत्वे कृते **शासिवसिघसीनां च** (८.३.६०) इति षत्वम्। अङ्हलोरिति किम्? शासति। शशासतुः, शशासुः॥ क्वौ च शास इत्त्वं भवतीति वक्तव्यम्॥ आर्यान् शास्तीति। मित्रशीः। यस्मात् शासेरङ् विहितः **शासु अनुशिष्टौ** इति तस्यैवेदं ग्रहणमिष्यते। **आङः शासु इच्छायाम्** इत्यस्य न भवति। आशास्ते। आशास्यमानः॥ क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम्॥ आशीः, आशिषौ, आशिषः। **क्षियाशीःप्रैषेषु तिङाकाङ्क्षम्** (८.२.१०४) इति निपातनाद् वा सिद्धम्॥ Siddhanta Kaumudi ----------------- शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-(SK2410) इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥ Laghu Siddhanta Kaumudi ----------------------- शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥ Balamanorama ------------ **शास इदङ्हलोः** - शास इदङ्हलोः । 'अनिदितां हलः' इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । 'आशास्ते' इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह - Tattvabodhini ------------- **शास इदङ्हलोः** - शास इदङ्हलोः । अङि अशिषत् । क्ङिति — शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह - आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्टे व्यतिशिढ्वे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति । Padamanjari ----------- अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणातदादिविधिरित्याह - हलादौ च क्ङितीति । क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमितत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यतु वर्णविशिष्टप्रत्ययनिमितं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः । अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमितम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते । एतस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां चेति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यमाशिषिलिङ्लोटौ इत्यादिनिर्देशात् ॥ Nyaas ----- `अन्वशिषत्` इति। **सर्त्तिशास्त्यर्तिभ्यश्च** (3.1.56) इति च्लेरङादेशः `शिष्वः, शिष्मः` इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्। `शासति` इति। **जक्षित्यादयः षट्** (6.1.6) इत्यभ्यस्तसंज्ञा, `अदभ्यस्तात्` (7.1.4) इति झेरदादेशः। `शशासतुः, शशासुः` इति। लिटतुस्युसि रूपे। `क्वौ च शासः` इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् -यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्? क्विब्लोपस्य विधानम्, तथापि लुप्तेऽपि तस्मिन्? प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति। `वर्णाश्रये प्रत्ययलक्षणं नास्ति` (व्या।प।96) इत्येतत्तु प्रायिकम्। तथा हि -वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा -`अतृणेट्` इति। अत्र `तृ ह इम्` (7.3.92) इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति। कथम्? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम् -`हलादौ क्ङिति` इति। तेन यद्यपि क्विब्? वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते, किं तर्हि? प्रत्ययरूपत्वेन।`आर्यशीः` इति। सकारस्य रुत्वे कृते `र्वोरुपधाया दीर्घः` (8.2.76) इति दीर्घः।अथ `आशास्ते, आशास्यमानः` इत्यत्र कथमित्त्वं न भवति? इत्याह -`यस्माच्छासेः` इत्यादि द्वाविमौ शासी -एकः परस्मैपदी, अपरस्त्वात्मनेपदी, तत्र यस्मात्? शासेरङ् विहितं तस्येवं ग्रहणम्। स च `शासु अनुशिष्टौ` (धातुपाठः-1075) इत्यस्य `सत्तिशास्त्यर्त्तिभ्यश्च` (3.1.56) इति विधीयते, तत्र `परस्मैपदेषु` (3.1.55) इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्। कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्। संसर्गे हि सति विशेषपरिच्छेदो भवति, तथा हि -`सकिशोरा धेनुरानीयताम्` इत्युक्ते किशोरेण संसर्गाद्? वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः, अतस्तेन संसर्गाद्? विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः, किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति, तत्? कुतोऽङ्संसर्गाद्? विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि `वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम्` इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्।यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्, एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति, तथा क्विप्प्रत्ययेऽपि न स्यात्? इत्यत आह -`क्विप्प्रत्यये ति` इत्यादि। `क्षियासीः` इत्यादि। अथ वा नैव तस्या ह्रपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः, आन्तरतम्याद्दीर्घो मा भूदिति चेत्? नैतदस्ति; `भाव्यमानोऽण्? सवर्णान्न गृह्णाति` (व्या।प।35) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः। अथासन्देहार्थः कस्मान्न भवति? `शास यङङलोः` इत्युच्यमाने सन्देहः स्यात् -किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः, यदयम्? **तदशिष्यं संज्ञाप्रमाणत्वात्** (1.2.53) इति निर्देशं करोति, ततो निश्चीयते -इकारोयम्, न हीकारः, नापि यकार इति॥ Prakriyasarvasvam ----------------- अङि हलादौ किङिति च परे ‘शासु अनुशिष्टौवि’त्यस्योपधाया इत् स्यात् । शिस् य । Vartika ------- क्वौ च शास इत्वं भवतीति वक्तव्यम् । Sutra Prayogas -------------- * **आशिषच्च** (भट्टिकाव्यम्): `शास इदङ्हलोः` इति शासेरुपधाया इत्वम्। * **अशिषन्** (भट्टिकाव्यम्): `शास इदङ्-हलोः` इतीत्वम्। * **अशिषत्** (भट्टिकाव्यम्): `शास इदहलोः` इति इकारः। * **प्रशिष्यास्त्वं** (भट्टिकाव्यम्): `शास इदङ् हलोः` इति इत्वम्।