64033: भञ्जेश्च चिणि¶
Padacheda: भञ्जेः | S | 6 | 1 |
च | S | 0 | 0 |
चिणि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The nasal may be optionally elided in भञ्ज before the 3rd person passive of the Aorist in चिण् (ई).
Vasu English Translation¶
The nasal may be optionally elided in भञ्ज before the 3rd person passive of the Aorist in चिण् (ई). Thus अभाजि or अभञ्जि ॥ This is an aprapta vibhasha, and teaches for the first time the elision of न in a certain contingency.
Kashika¶
भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तोऽयं नलोपः पक्षे विधीयते। ततो नेति नानुवर्तते॥
Siddhanta Kaumudi¶
नलोपो वा स्यात् । अभाजि । अभञ्जि ॥
Laghu Siddhanta Kaumudi¶
नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥
Balamanorama¶
भञ्जेश्च चिणि - भञ्जेश्च चिणि । ‘श्नान्नलोपः’ इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।
Nyaas¶
चकारः विभाषा (6.4.32) इत्यनुकर्षणार्थः। अभाजि इति। पूर्वमेव व्युत्पादितम्। अप्राप्तोऽयं नकारलोपः इति। क्ङिति नलोपविधानात्, चिणश्चाक्ङित्वात्। अतः प्रतिषेध्याभाबान्नति नानुवर्तते। तेन विधिरेवायमित्यभिप्रायः॥
Prakriyasarvasvam¶
चिणि भञ्जेर्नलोपो वा स्यात् । अभाजि, अभञ्जि । अभङ्क्षाताम् । अभङ्क्थाः । अभङ्ग्ध्वम् । अभङ्क्षि । अभङ्क्ष्वहि । बभञ्ज । बभञ्जतुः । ‘उपदेशेऽत्वतः’ (७-२-६२) । बभञ्जिथ, बभङ्क्थ । बभञ्जिव । भज्यात् । भङ्क्ता । भङ्क्ष्यति । कर्मणि बभञ्जे । बभञ्जिषे । भङ्क्षीष्ट ।।
Sutra Prayogas¶
अतिसुरभिभाजि (शिशुपालवधम्): भञ्जेश्च चिणि इति विभाषा नलोपे उपधावृद्धिः।