64028: स्यदो जवे

Padacheda: स्यदः | S | 1 | 1 |

जवे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word स्यद् is formed by घञ् in the sense of ‘speed’.

Vasu English Translation

The word स्यद् is formed by घञ् in the sense of ‘speed’. This word is derived from स्यन्द, the nasal is elided, and the Vriddhi prohibited irregularly. Though the ardhadhatuka affix घञ् causes here the elision of a portion of the root, viz of न् of स्यन्द्, yet rule (1.1.4) does not apply here. That rule prohibits Guna and Vriddhi, only in case of इक् vowels, here the Vriddhi is prevented with regard to अ ॥ The prevention of this Vriddhi is irregular and not governed by (1.1.4). Thus गोस्यदः अश्वस्यदः meaning “cow-speed,” “horse-speed.” but तैलस्यन्दः, and घृतस्यन्दः meaning “dripping of oil or ghee”.

Kashika

जवेऽभिधेये स्यद इति घञि निपात्यते। स्यन्देर्नलोपो वृद्ध्यभावश्च। इक्प्रकरणाद् न धातुलोप० (१.१.४) इति प्रतिषेधो नास्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः॥

Siddhanta Kaumudi

स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥

Padamanjari

जवः - वेगः । गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ॥

Nyaas

जवः=वेगः, गतिविशेषः। वृद्ध्यभावश्च इति। अत उपधायाः इति। नलोपे कृते अत उपधायाः इति वृद्धिः प्राप्नोति, अतस्तदभावो निपात्यते। ननु च न धातुलोप आर्धधातुके (1.1.4) इत्यनेनैव वृद्धिप्रतिषेधः सिद्धः, तत्? किमर्थं वृद्ध्यभावो निपात्यते? इत्याह -इक्प्रकरणात् इत्यादि। तत्र इको गुणवृद्धी (1.1.3) इत्यत इक् इति परकृतमनुवर्तते, तेनेग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चेयमिन्लक्षणा वृद्धिः, किन्तूपधालक्षणा। न चेयमुपधालक्षणा वृद्धिरिग्लाक्षणा भवति, निर्दिष्टस्थानिकत्वात्। तेन नास्त्यत्र तस्याः प्रतिषेधः। गोस्यदः इति। भावे धञ्। गवां स्यद इति गोस्यदः, कृद्योगा षष्ठी समस्यते (धा।86) इति समासः। तैलस्यन्दः इति। तैलस्य रुआवणमित्यर्थः। स्यन्दू रुआवणे`[`प्ररुआवणे धातुपाठः-] (धातुपाठः-761)॥

Prakriyasarvasvam

स्यन्दोऽन्यः ॥

Sutra Prayogas

  • स्यदं (भट्टिकाव्यम्): स्यदो जवे इत्यनुनासिकलोपो निपात्यते ।