64029: अवोदैधौद्मप्रश्रथहिमश्रथाः

Padacheda: अवोद-एध-ओद्म-प्रश्रथ-हिमश्रथाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

  1. अवोद 2. एध 3. ओद्म 4. प्रश्रथ and 5. हिमश्रथ are irregularly formed by the elision.

Vasu English Translation

1. अवोद 2. एध 3. ओद्म 4. प्रश्रथ and 5. हिमश्रथ are irregularly formed by the elision. Thus उन्द् - अव + उन्द् + घञ् = अवोदः; इन्ध् + घञ् = एधः, the guna is irregular, for (1.1.4) applied here, and prevented guna. उन्द + मन् = ओद्म (Unadi मन्). प्र + श्रन्थ + घञ् = प्रश्रथः (The want of Vriddhi is the irregularity). So also हिमश्रथः ॥

Kashika

अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इत्युन्देरवपूर्वस्य घञि नलोपो निपात्यते। अवोदः। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। न धातुलोप आर्धधातुके (१.१.४) इति हि प्रतिषेधः स्यात्। एधः। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथः। हिमश्रथ इति हिमपूर्वस्य श्रन्थेर्घञ्येव निपातनम्। हिमश्रथः॥

Siddhanta Kaumudi

अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥

Tattvabodhini

अवोदैधौद्मप्रश्रथहिमश्रथाः - अवोदै । अवोद इति । उन्दी क्लेदनेऽवपूर्वः । घञि नलोपो निपात्यते । एध इति । इन्धेर्घञि नलोपो गुणश्च निपात्यते ।न धातुलोपे॑ इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम् । ओद्म इति । उन्देरौणादिके मन्प्रत्ययो नलोपो गुणश्चाऽत्रापि निपात्यते । श्रन्थेरिति । प्रपूर्वस्य हिमपूर्वस्य च घञि निपात्यते इति बोध्यम् ।

Padamanjari

उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥

Nyaas

अवोदः इति। उपसर्गेण सह आद्गुणः (6.1.87) । न धातुलोपः (1.1.4) इत्यादिना प्रतिषेधो न भवति; अनिग्लक्षणत्वाद्गुणस्य। गुणश्च निपात्यते इति। ननु च पुगन्तलधूपधस्य (7.3.86) इत्येवं गुणः सिद्धः। तत्? किमर्थं निपात्यते? इत्याह -न धातुलोपः इत्यादि। औणादिके मन्प्रत्ययः इति। अर्त्तिसतुसुहुसृधृक्षिक्षुभायावापदयक्षिनौब्यो मन् (द।उ।7।26) [अर्त्तिस्तुसुहुसृधृक्षिक्षुभायापदियक्षिनीभ्यो मन् -द।उ।] इत्यर्त्त्यादिभ्यो विधीयमानो बहुलवचनादुन्देरपि भवति। श्रन्तेः इति। श्रन्थ मोचनप्रतिहर्षणयोः (धा।प।1510) इत्यस्य॥

Prakriyasarvasvam

अवपूर्वस्योन्देर्घञ्यवोदः किञ्चिदाद्रः । इन्धेरेधः । मोचनार्थाच्छ्रन्थेर्घञ् । प्रश्रथः । हिमं श्रथयतेऽस्मादिति हिमश्रथश्चन्द्रः । ओद्यस्तून्दनः । औणादिके मनि नलोपगुणौ ॥