64028: स्यदो जवे ================ **Padacheda:** स्यदः | S | 1 | 1 | जवे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word स्यद् is formed by घञ् in the sense of 'speed'. Vasu English Translation ------------------------ The word स्यद् is formed by घञ् in the sense of 'speed'. This word is derived from स्यन्द, the nasal is elided, and the *Vriddhi* prohibited irregularly. Though the *ardhadhatuka* affix घञ् causes here the elision of a portion of the root, viz of न् of स्यन्द्, yet rule (1.1.4) does not apply here. That rule prohibits *Guna* and *Vriddhi*, only in case of इक् vowels, here the *Vriddhi* is prevented with regard to अ ॥ The prevention of this *Vriddhi* is irregular and not governed by (1.1.4). Thus गोस्यदः अश्वस्यदः meaning "cow-speed," "horse-speed." but तैलस्यन्दः, and घृतस्यन्दः meaning "dripping of oil or ghee". Kashika ------- जवेऽभिधेये स्यद इति घञि निपात्यते। स्यन्देर्नलोपो वृद्ध्यभावश्च। इक्प्रकरणाद् **न धातुलोप०** (१.१.४) इति प्रतिषेधो नास्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः॥ Siddhanta Kaumudi ----------------- स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥ Padamanjari ----------- जवः - वेगः । गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ॥ Nyaas ----- जवः=वेगः, गतिविशेषः। `वृद्ध्यभावश्च` इति। `अत उपधायाः` इति। नलोपे कृते `अत उपधायाः` इति वृद्धिः प्राप्नोति, अतस्तदभावो निपात्यते। ननु च **न धातुलोप आर्धधातुके** (1.1.4) इत्यनेनैव वृद्धिप्रतिषेधः सिद्धः, तत्? किमर्थं वृद्ध्यभावो निपात्यते? इत्याह -`इक्प्रकरणात्` इत्यादि। तत्र **इको गुणवृद्धी** (1.1.3) इत्यत `इक्` इति परकृतमनुवर्तते, तेनेग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चेयमिन्लक्षणा वृद्धिः, किन्तूपधालक्षणा। न चेयमुपधालक्षणा वृद्धिरिग्लाक्षणा भवति, निर्दिष्टस्थानिकत्वात्। तेन नास्त्यत्र तस्याः प्रतिषेधः। `गोस्यदः` इति। भावे धञ्। गवां स्यद इति गोस्यदः, `कृद्योगा षष्ठी समस्यते` (धा।86) इति समासः। `तैलस्यन्दः` इति। तैलस्य रुआवणमित्यर्थः। `स्यन्दू रुआवणे`[`प्ररुआवणे` धातुपाठः-] (धातुपाठः-761)॥ Prakriyasarvasvam ----------------- स्यन्दोऽन्यः ॥ Sutra Prayogas -------------- * **स्यदं** (भट्टिकाव्यम्): `स्यदो जवे` इत्यनुनासिकलोपो निपात्यते ।