64027: घञि च भावकरणयोः¶
Padacheda: घञि | S | 7 | 1 |
च | S | 0 | 0 |
भावकरणयोः | S | 7 | 2 |
Sutrartha¶
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य घञ्-प्रत्यये परे भावे तथा करणे लोपः भवति ।
घञ्-इति कश्चन कृत्-प्रत्ययः । धातोः परः अयं प्रत्ययः भावे, करणे तथा अधिकरणे विधीयते । एतेभ्यः भावकरणयोः अर्थयोः रन्ज्-धातोः उपधा-नकारस्य वर्तमानसूत्रेण लोपः भवति । यथा - 1. रन्ज् + घञ् [भावे (3.3.18) इत्यनेन क्रियायाः अर्थे घञ्-प्रत्ययः] → रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः] → रज् + अ [ घञि च भावकरणयोः (6.4.27) इति उपधा-नकारस्य लोपः] → राज् + अ [अचो ञ्णिति (7.2.115) इति उपधा-अकारस्य वृद्धिः] → राग् + अ [चजोः कुः घिन्ण्यतोः (7.3.52) इति घित्-प्रत्यये परे जकारस्य गकारः] → रागः । 2. रन्ज् + घञ् [हलश्च (3.3.121) इत्यनेन ‘रज्यते अनेन इति’ इत्यस्मिन् अर्थे करणे घञ्-प्रत्ययः] → रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः] → रज् + अ [ घञि च भावकरणयोः (6.4.27) इति उपधा-नकारस्य लोपः] → राज् + अ [अचो ञ्णिति (7.2.115) इति उपधा-अकारस्य वृद्धिः] → राग् + अ [चजोः कुः घिन्ण्यतोः (7.3.52) इति घित्-प्रत्यये परे जकारस्य गकारः] → रागः । अधिकरणस्य अर्थे विहिते घञ्-प्रत्यये परे अयं लोपः न भवति । यथा, ‘रजन्ति तस्मिन् इति’ इत्यत्रापि हलश्च (3.3.121) इत्यनेन अधिकरणे घञ्-प्रत्ययः भवति, परन्तु अत्र ‘रङ्गः’ इति अन्तिमम् रूपम् जायते । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नलोपः अपि न भवति ।
Sutrartha (English)¶
When followed by the घञ्-प्रत्यय in the meaning of भाव or करण the उपधा-नकार of the verb root रञ्ज् is removed.
Vasu English Summary¶
The penultimate nasal of रञ्ज् is elided before घञ् when the word formed with it expresses a state or an instrument.
Vasu English Translation¶
The penultimate nasal of रञ्ज् is elided before घञ् when the word formed with it expresses a state or an instrument. Thus रागः ‘passion, color, or the coloring stuff’. Thus आश्चर्यो रागः, विचित्र रागः denote भाव, while रज्यतेऽनेनिति रागः denotes instrument. The घञ् is added by (3.3.121); and च् changed to क् by (7.3.52). But रङ्गः = रजन्ति तस्मिन् ‘a theatre’.
Kashika¶
भावकरणवाचिनि घञि परतो रञ्जेरुपधाया नकारस्य लोपो भवति। भावे — आश्चर्यो रागः। विचित्रो रागः। करणे — रज्यतेऽनेनेति रागः। भावकरणयोरिति किम्? रजन्ति तस्मिन्निति रङ्गः॥
Siddhanta Kaumudi¶
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-(SK3188) इति कृत्यल्युटो बहुलं-(SK2841) इति यावत् द्वयमप्यनुवर्तते ॥
Laghu Siddhanta Kaumudi¶
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
Tattvabodhini¶
घञि च भावकरणयोः - प्रायिकमिति । सर्वात्मना संज्ञाग्रहमत्यागेकृतः कटर॑ इत्यत्रकारः कट॑ इति स्यादिति भावः । भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम् ।
Padamanjari¶
राग इति । हरश्चेति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ॥
Nyaas¶
रज्यतेऽनेनेति रागः इति। हलश्च (3.3.121) इति घञ्। एवं रङ्गः इत्यत्रापि॥
Prakriyasarvasvam¶
भावार्थे करणार्थे च घञि परे रञ्जेरुपधाया नस्य लोपः स्यात् । वृद्धिकुत्वे । रागो रञ्जनं तत्साधनं च । रञ्जनाधिकरणं तु रङ्गः । अत्र कुत्वे कृते नस्यानुस्वारपरसवर्णौ । ‘अकि लक्षणे’ नुम् । घञ् । अङ्कः ॥