63136: निपातस्य च¶
Padacheda: निपातस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In the ऋग्वेद the final of a particle is lengthened.
Vasu English Translation¶
In the ऋग्वेद the final of a particle is lengthened. Thus एवा ते, अच्छाते, अच्छा जरितारः (Rig. I.2.2).
Kashika¶
ऋचीत्येव। निपातस्य च ऋग्विषये दीर्घ आदेशो भवति। ए॒वा ते॑ (ऋ० १०.२०.१०)। अच्छा॑ (ऋ० १.२.२)॥
Siddhanta Kaumudi¶
एवा हि ते (ए॒वा हि ते॒) ॥
Padamanjari¶
एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥
Prakriyasarvasvam¶
मन्त्रे दीर्घः । एवा हि । अच्छा नः । अथा राजानम् । ‘अन्येषापि दृश्यते’ (६-३-१३७) इति दीर्घे जलाषाट् । अत्र ‘छन्दसि सहः’ (३-२-६३) इति ण्विः । ‘सहेः साडः सः’ (८-३-५६) इति षः ।