63135: द्व्यचोऽतस्तिङः¶
Padacheda: द्व्यचः | S | 6 | 1 |
अतः | S | 6 | 1 |
तिङः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A tense affix ending in अ is lengthened in the ऋग्वेद when the verb consists of two syllables.
Vasu English Translation¶
A tense affix ending in अ is lengthened in the ऋग्वेद when the verb consists of two syllables. Thus विद्मा हि त्वा सत्पतिं शूर गोनाम् &c. See Rig III.42.6, विद्मा हि तस्य पितरम् &c. But not here देवा भवत वाजिनः, as the verb consists of more than two syllables: not also here आ देवान् वक्षि यक्षि च as the verbs do not end in अ ॥
Kashika¶
ऋचीति वर्तते। द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। वि॒द्मा श॒रस्य॑ पि॒तर॑म् (शौ०सं०१.२.१) द्व्यच इति किम्? अश्वा॒ भव॑त वा॒जिनः॑ (मा०सं० ९.६)। अत इति किम्? आ दे॒वान् व॑क्षि॒ यक्षि॑ च (ऋ० ५.२६.१)॥
Siddhanta Kaumudi¶
मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ॥
Padamanjari¶
भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्, सिप् । सिब्बहुलं लेटि इत्ययं एतु विधिर्न भवति, बहुवचनात् । बहुलं च्छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ॥
Nyaas¶
अष्टावक्रः इति। अष्टौ वक्राण्यस्येति बहुव्रीहिः॥अष्टाकपालम् इति। अष्टसु कपलेषु संस्कृतमिति संस्कृतम् (4.4.3) इत्यण्, तस्य द्विगोर्लुगनपत्ये (4.1.88) इति लुक्। `अष्टाहिरण्या इति। बहुव्रीहिः। पादस्य लोपे कृते इति। पादस्य लोपोऽहस्त्यादिभ्यः (5.4.138) इत्यनेन। गविच युक्ते इत्यादि। वक्तव्यम् इति। अस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्रक्रियते, सचानुक्तसमुच्चयार्थः। तेन गवि च युक्ते भाषायामप्यष्टनो दीर्घो भवति॥
Prakriyasarvasvam¶
द्व्यचोऽदन्तस्य तिङः पदस्य मन्त्रे दीर्घः । विद्मा हि । भवा४ नः ।