63136: निपातस्य च ================= **Padacheda:** निपातस्य | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the ऋग्वेद the final of a particle is lengthened. Vasu English Translation ------------------------ In the ऋग्वेद the final of a particle is lengthened. Thus एवा ते, अच्छाते, अच्छा जरितारः (*Rig*. I.2.2). Kashika ------- ऋचीत्येव। निपातस्य च ऋग्विषये दीर्घ आदेशो भवति। ए॒वा ते॑ (ऋ० १०.२०.१०)। अच्छा॑ (ऋ० १.२.२)॥ Siddhanta Kaumudi ----------------- एवा हि ते (ए॒वा हि ते॒) ॥ Padamanjari ----------- एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥ Prakriyasarvasvam ----------------- मन्त्रे दीर्घः । एवा हि । अच्छा नः । अथा राजानम् । 'अन्येषापि दृश्यते' (६-३-१३७) इति दीर्घे जलाषाट् । अत्र 'छन्दसि सहः' (३-२-६३) इति ण्विः । 'सहेः साडः सः' (८-३-५६) इति षः ।