63137: अन्येषामपि दृश्यते

Padacheda: अन्येषाम् | S | 6 | 3 |

अपि | S | 0 | 0 |

दृश्यते | T | | |

Sutrartha


Vasu English Summary

The elongation of the final is to be found in other words also.

Vasu English Translation

The elongation of the final is to be found in other words also. Here we must follow the usage of the Sishthas. Where the lengthening is not ordained by any of the rules of Grammar, but occurs in the writing of standard authors, there we should accept such lengthening as valid. Thus केशाकेशि, कचाकचि, जलासाद्, नारकः, पूरुषः ॥

Vart:- The final of श्वन् is lengthened before the following दन्त, दष्ट्रा, कर्ण, कुन्द, वराह, पुच्छ, and पदः- as श्वादन्तः, श्वादंष्ट्रः, श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छः, श्वापदः ॥

Kashika

अन्येषामपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं न विहितम्, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। केशाकेशि। कचाकचि। जलाषाट्। नारकः। पूरुषः॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु॥ श्वादन्तः। श्वादंष्ट्रः। श्वाकर्णः। श्वाकुन्दः। श्वावराहः। श्वापुच्छः। श्वापदः॥

Siddhanta Kaumudi

अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ॥

Balamanorama

अन्येषामपि दृश्यते - अन्येषामपि दृश्यते । अनुवर्तते इति । ढ्रलोपे इत्यत॑ इति शेषः ।नहिवृतिवृषी॑त्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्क्याह — कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घ इति ।बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ॑ इत्यर्थः । तेनतुराषा॑डित्यादौ दीर्गो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ।इच्कर्मव्यतिहारे इति सूत्रेणे॑ति शेषः । तिष्ठधुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र ‘अव्ययीभावः’ इत्यनुवृत्तेरिति भावः । अव्ययत्वमिति ।अव्ययीभावश्चे इत्यनेने॑ति शेषः । ‘अव्ययादाप्सुपः’ इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति ।परस्पर॑मिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकर्तृकत्वात्समानकर्तृकत्वाऽभावात्कथमिह क्त्वाप्रत्यय इति वाच्यं, गृहीत्वेत्यनन्तरंस्थितयो॑रित्यद्याहारात् । ततश्च अस्य केशेषु केशेष्वित्यनयोग्र्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुब्लुक् । पूर्वपदस्य दीर्घः । इच्समासान्तः ।यस्येति चे॑त्यकारलोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकसेषापवादोऽयं बहुव्रीहिसमासः, अप्रथमान्तार्थश्च, दण्डैश्चेति । अस्य डण्डैः सः, तस्य दण्डैरयमित्येव परस्परं प्रह्मत्य स्तितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादण्डीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच्, ‘यस्येति च’ इति अकारलोपः । अव्ययत्वात्सुब्लुक् । भुष्टीमुष्टीति । अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रह्मत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टआ मुष्टआ इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् ।मुष्टामुष्टी॑ति पूर्वपदान्तस्य आत्वमपाणिनीयमेव ।ओर्गुणः । ओरित्युकारात्षष्ठएकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । ‘नस्तद्धिते’ इत्यनुवर्तते । तदाह — उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः , इच् ।यस्येति चे॑ति बाधित्वा ओर्गुणः, अवादेशः । अव्ययत्वात्सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थासाम्यादोकार एव भवति, ततश्च लाघवात्ओरो॑रित्येव सिद्धे ‘गुण’ इति गुरुनिर्देशो व्यर्थं इत्यत आह — ओरोदिति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यं, विधेयसमर्पबकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नचओ॑दिति तपरस्तत्कालस्य संज्ञेति वाच्यं, विधायमानत्वादेव तत्कालत्वसिद्ध्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण्, स्वायंभुवः । संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाऽभावे उवङ्, आदिवृद्धिरिति भावः ।स्वायम्भुव॑मिति पाठे तस्येदमित्यण् । हलेन मुसलेनेति । अत्र असरूपत्वाद्धलामुसलीति न भवतीति भावः ।

Tattvabodhini

अन्येषामपि दृश्यते - अन्येषामपि दृश्यते । अत्र प्राचादृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम्, आत्वं वाऽनचि॑ इत्युक्तम् । तत्रआत्वं वा॑इत्यपाणिनीयम् । अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव । एतच्च मनोरमायां स्पष्टम् ।

Padamanjari

अञ्चतिर्गृह्यत इति । चवर्गस्य तु ग्रहणं न भवति व्याख्यानात् । दघीचेति । ननु चान्तरङ्गत्वाद्यणादेशेनैव प्राग्भवितव्यम्, अकारलोपो भस्य विधीयते, भसंज्ञा च यकारादावजादौ च सम्भवतीति बहिरङ्गः, दीर्घत्वं तु लोपमपेक्षत इति बहिरङ्गमत आह - अन्तरङ्गोऽपीति । एवं मन्यते - इह दीर्घश्रुत्या अचश्च इत्युपतिष्ठते, तत्राचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । यदि च यणाअदेशः स्यान्न क्वाप्यजन्तपूर्वपदं स्यात् । प्राच इत्यादावपि पूर्वमेव सवर्णदीर्घत्वप्रसङ्गः, तस्मादन्तरङ्गोऽपि विधिर्बाध्यत इति । अत्र च लिङ्गं प्रतीचेति निर्देशः ॥

Nyaas

एकचितीकः इति। एका चितिरस्येति बहुव्रीहिः, ततः स्त्रियाः पुंवत् (6.3.33) इत्यादिना पुंवद्भावः, शेषाद्विभाषा (5.4.154) इति कप्॥

Prakriyasarvasvam

अन्येषं भाषायामपि दीर्घो दृश्यते ।।

Vartika

शुनोदन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः ।

Sutra Prayogas

  • तुराषाडिव (रघुवंशम्): अन्येषामपि दृश्यते इति पूर्वपदस्य दीर्घः।

  • पान्तावल्पं-पचान्मुनीन् (भट्टिकाव्यम्): अन्येषामपि दृश्यते इति पान्तौ इत्यत्र दीर्घः।