63135: द्व्यचोऽतस्तिङः ====================== **Padacheda:** द्व्यचः | S | 6 | 1 | अतः | S | 6 | 1 | तिङः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A tense affix ending in अ is lengthened in the ऋग्वेद when the verb consists of two syllables. Vasu English Translation ------------------------ A tense affix ending in अ is lengthened in the ऋग्वेद when the verb consists of two syllables. Thus विद्मा हि त्वा सत्पतिं शूर गोनाम् &c. See *Rig* III.42.6, विद्मा हि तस्य पितरम् &c. But not here देवा भवत वाजिनः, as the verb consists of more than two syllables: not also here आ देवान् वक्षि यक्षि च as the verbs do not end in अ ॥ Kashika ------- ऋचीति वर्तते। द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। वि॒द्मा श॒रस्य॑ पि॒तर॑म् (शौ०सं०१.२.१) द्व्यच इति किम्? अश्वा॒ भव॑त वा॒जिनः॑ (मा०सं० ९.६)। अत इति किम्? आ दे॒वान् व॑क्षि॒ यक्षि॑ च (ऋ० ५.२६.१)॥ Siddhanta Kaumudi ----------------- मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ॥ Padamanjari ----------- भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्, सिप् । सिब्बहुलं लेटि इत्ययं एतु विधिर्न भवति, बहुवचनात् । बहुलं च्छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ॥ Nyaas ----- `अष्टावक्रः` इति। अष्टौ वक्राण्यस्येति बहुव्रीहिः॥`अष्टाकपालम्` इति। अष्टसु कपलेषु संस्कृतमिति **संस्कृतम्** (4.4.3) इत्यण्, तस्य `द्विगोर्लुगनपत्ये (4.1.88) इति लुक्। `अष्टाहिरण्या` इति। बहुव्रीहिः। `पादस्य लोपे कृते` इति। **पादस्य लोपोऽहस्त्यादिभ्यः** (5.4.138) इत्यनेन। `गविच युक्ते` इत्यादि। `वक्तव्यम्` इति। अस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्रक्रियते, सचानुक्तसमुच्चयार्थः। तेन गवि च युक्ते भाषायामप्यष्टनो दीर्घो भवति॥ Prakriyasarvasvam ----------------- द्व्यचोऽदन्तस्य तिङः पदस्य मन्त्रे दीर्घः । विद्मा हि । भवा४ नः ।