63134: इकः सुञि

Padacheda: इकः | S | 6 | 1 |

सुञि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a मन्त्र the finals of the preceding member ending in इ or उ are lengthened before the particle सु।

Vasu English Translation

In a मन्त्र the finals of the preceding member ending in इ or उ are lengthened before the particle सु। Thus अभी षु णः सखीनाम् (Rig. IV. 31.3) उर्ध्व ऊ षुण उतये (Rig I.36.13). The स is changed to ष by (8.3.107): and न changed to ण by (8.4.27).

Kashika

सुञ् निपातो गृह्यते। इगन्तस्य सुञि परतो मन्त्रविषये दीर्घो भवति। अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)। सुञः (८.३.१०५) इति षत्वम्। नश्च धातुस्थोरुषुभ्यः (८.४.२७) इति णत्वम्॥

Siddhanta Kaumudi

ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः (SK3644) इति षः । नश्च धातुस्थोरुषभ्यः (SK3649) इति णः ॥

Padamanjari

सुञिति निपातस्य ग्रहणम्, तस्य च ञकारोऽत्रैव विशेषणार्थः । ऊषुण इति । उकारस्य दीर्घः ॥

Nyaas

दा इत्येतस्य यस्तकारादिरादेशः` इति। एतेन स्थान्यादेशसम्बन्धे दः इत्येषा षष्ठीति विज्ञायते। वीत्तम् इति। ददातेर्निष्ठायां रूपम्। ननु चत्र तकारादिरादेशः परो न सम्भवत्येव, तथा हि - यस्तावत्? अच उपसर्गात्तः (7.4.47) इति तकार सः अलोऽन्त्यस्य (1.1.52) इति वचनादन्त्यस्य क्रियते, स च वर्णान्तरो व्यवधानादनन्तरस्तकारः परो न सम्भवति; योऽपि खरि च (8.4.54) इति दकारसय तकारो विधीयते, सोऽपिन सम्भवत्येव; दीर्घत्वे कर्तव्ये चर्त्वस्यासिद्धत्वेनाविद्यमानत्वादित्यत आह - अच उपसर्गात्तः इत्यादि। आश्रयणमाश्रयः=अङ्गीकरणम्। दा इत्यत्र यसतकारादिरादेशः, तस्मिन्? परत इगन्तस्योपसर्गस्य दीर्घो भवतीति ब्राउवता चर्त्वमाश्रितम्, न ह्रन्यथा तकारादिरादेशः परः सम्भवति। तस्मात्? चर्त्वस्याश्रयणात्? सिद्धम्। अतस्तकारादिरादेशो भवतीति। नितीर्णम् इति। तृ? प्लवनतरणयोः (दा।पा।969) ऋत इद्? धातोः (7.1.100) इतीत्त्वम्, हलि च (8.2.77) इति दीर्घः। अट्कुप्वाङ् (8.4.2) इत्यादिना णत्वम्। सुदत्तम् इति। दो दद्घोः (7.4.46) इत्यत्र - अवदत्तं विदत्तं च प्रादत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तमिति चेष्यते॥त्यनयेष्टआ ददातेर्ददादेश-॥

Prakriyasarvasvam

इगन्तस्य सु शब्दे परे मन्त्रे दीर्घः स्यात् । अभी षू३ णः । ‘सुञः’ (८-३- १०७) इति षत्वम् ।