63132: ओषधेश्च विभक्तावप्रथमायाम्¶
Padacheda: ओषधेः | S | 6 | 1 |
च | S | 0 | 0 |
विभक्तौ | S | 7 | 1 |
अप्रथमायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a मन्त्र the final of ओषधि is lengthened before the case-endings but not in the Nominative 1st-Case.
Vasu English Translation¶
In a मन्त्र the final of ओषधि is lengthened before the case-endings but not in the Nominative 1st-Case. Thus ओषधीभिरपीपतत्, नमः पृथिव्यै नमः ओषधीभ्यः ॥ Why do we say ‘before case-endings’? Observe ओषधिपते ॥ Why do we say ‘but not in the Nominative’? Observe स्थिरेयमस्त्वौषधिः ॥
Kashika¶
मन्त्र इति वर्तते। ओषधिशब्दस्य विभक्त ावप्रथमायां परतो दीर्घो भवति। ओष॑धीभिः पुनीतात् (ऋ० १०.३०.५)। नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः (तै०आ० २.१२.१)। विभक्ताविति किम्? ओषधिपते। अप्रथमायामिति किम्? स्थिरेयमस्त्वोषधिः॥
Siddhanta Kaumudi¶
दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ॥
Nyaas¶
उपसर्गात्? केवलं घञ्प्रत्ययो न सम्भवति, अतो घञन्त उत्तरपदे कार्यं वज्ञायत इत्याह - घञन्त उत्तरपदे इत्यादि। वीक्लेदः इति। क्लिद आद्र्रीभावे (धातुपाठः-1242), [क्लिदू - धातुपाठः-] अकर्तरि च कारके (3.3.19) इत्यादिना घञ्। वीमार्गः इति। मृजू शूद्धौ` (धातुपाठः-1066), मृजेर्वृद्धिः (7.2.114) , चजोः कु घिण्यतोः (7.3.52) इति कुत्वम्। प्रसेवः इति। षिवु तन्तुसन्ताने (धातुपाठः-1108)। कृत्रिमम् इति। करणेन निर्वृत्तं कृत्रिमम्। पुरुषव्यापारादिभिर्निर्वृत्तमित्यर्थः। निषादः इति। षद्लृ विशरणगत्यवसादनेषु (धातुपाठः-854), निषीदत्यस्मिन्? पापमिति निषादः। हलश्च (3.3.121) इति घञ्॥
Praudhamanorama¶
एतत्तदोर्यः सुरिति। एतत्तदर्थगतसंख्याभिधायी यः सुस्तस्येत्यर्थः। एतत्तदोर्विहित इति व्याख्याने तु परमस ददाति, परमैष ददातीत्यादौ न स्यात्। अर्थद्वारकसम्बन्धाश्रयणे लिङ्गं तु ‘अनञ्समासे’ इति बोध्यम्।
Sutra Prayogas¶
ओषधीं (भट्टिकाव्यम्): ओषधेश्च विभक्तावप्रथमायाम् इति दीर्घत्वम्।