63131: मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ

Padacheda: मन्त्रे | S | 7 | 1 |

सोम-अश्व-इन्द्रिय-विश्वदेव्यस्य | S | 6 | 1 |

मतौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a मन्त्र the final vowels of 1. सोम 2. अश्व 3. इन्द्रिय and 4. विश्वदेव्य are lengthened when the affix मतुप् follows.

Vasu English Translation

In a मन्त्र the final vowels of 1. सोम 2. अश्व 3. इन्द्रिय and 4. विश्वदेव्य are lengthened when the affix मतुप् follows. Thus सोमावती, अश्वावती, इन्द्रियावती, विश्वदेव्यावती ॥

Kashika

मन्त्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतो दीर्घो भवति। सो॒मा॒व॒ती (ऋ०१०.९७.७)। अ॒श्वा॒व॒ती (ऋ० १०.९७.७)। इ॒न्दि्॒रयाव॒ती (तै०सं० २.४.२.१)। वि॒श्वदे॑व्यावती (तै०सं० ४.१.६.१)॥

Siddhanta Kaumudi

दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ॥

Nyaas

ऋषीवहः [ऋषीवहम् - काशिका] इति। षष्ठीसमासः। वहशब्दः पचाद्यजन्तः। अपील्वादीनाम् इत्यादि। यदेतदिको दीर्घविधानं तत्? पील्वादीनां न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् - इहापि तदेव बहुलग्रहणं पूर्ववदुपतिष्ठते, तेन पीलुशब्दादन्येषामपि केषाञ्चिद्दीर्घत्वं न भविष्यतीति॥

Prakriyasarvasvam

सोमादेर्मतौ परे मन्त्रे दीर्घः स्यात् । अश्वावतीम् । सोमावतीम् । इन्द्रियावन्तो मनामहे । विश्वकर्मणा विश्वदेव्यावता । संहिताधिकारादवग्रहे संहिताभावाद् दीर्घो न । अश्ववतीम् । सोमवतीम् इत्यादि ।