63133: ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्

Padacheda: ऋचि | S | 7 | 1 |

तु-नु-घ-मक्षु-तङ्-कु-त्र-उरुष्याणाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

In the ऋग्वेद the finals of the particles 1. तु 2. नु 3. घ 4. मक्षु , the tense-affix तङ् , कु the ending त्र and the word उरुष्य are lengthened.

Vasu English Translation

In the ऋग्वेद the finals of the particles 1. तु 2. नु 3. घ 4. मक्षु , the tense-affix तङ् , कु the ending त्र and the word उरुष्य are lengthened. Thus तु :- आ तू न इन्द्र वृत्रहन् (Rig IV. 32.1) नु - नू करणे ॥ घ :- उत वाचा स्थालात् ॥ मक्षु :- मक्षू गोमन्तमीमहे ॥ तङ् :- भरता जातवेदसम् ( Rig X. 176.2). तङ् is substitute त of था, when it is treated as ङित्, therefore it does not apply here, शृणोत ग्रावाणः (1.2.4). कु - कूमनस्; त्र -अत्रा गौः; उरुष्या णोग्नेः ॥

Kashika

ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति। तु — आ तू न इन्द्र वृत्रहन् (ऋ०४.३२.१)। नु — नू करणे। घ — उ॒त वा॑ घा स्या॒लात् (ऋ० १.१०९.२)। मक्षु — म॒क्षू गोम॑न्तमीमहे (ऋ०८.३३.३)। तङ् — भर॑ता जा॒तवे॑दसम् (ऋ० १०.१७६.२)। तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम्, तेनेह न भवति — शृ॒णोत॑ ग्रावाणः (तै०सं० १.३.१३.१)। कु — कूमनः। त्र — अत्रा गौः। उरुष्य — उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ (ऋ० १.९१.१५)॥

Siddhanta Kaumudi

दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ॥

Padamanjari

एमन्त्रे इति प्रकृति ऋग्ग्रहणं मन्त्रविशेषप्रतिपत्यर्थम् । घ इति स्वरुपग्रहणम्, न तरप्तमपोः, च्छन्दसि घशब्दस्यैव दीर्घदर्शनात् । उत वा घा स्यालादिति । भार्याया भ्राता स्यालः ततः पञ्चमी । तङिति थादेशस्य ङ्त्विपक्षे ग्रहणमिति । लोण्मध्यमपुरुषबहुवचनस्य थस्य लोटो लङ्वत् इत्यतिदेशेन यस्तादेशस्तस्य यदा ङ्त्विं तदा ग्रहणमित्यर्थः । एशृणोत ग्रावाण इति । तप्तनप्तनथनाश्चेति तबादेशः । अत्र पित्वान्ङ्त्विं नास्ति । तङिति प्रत्याहारग्रहणमिति तु वृतौ न क्वापि पाठो दृश्यते । यच्च तत्रोक्तम् - लोण्मध्यमपुरुषबहुवचनादारभ्य आ महिङे ङ्कारत्प्रत्याहारः इति, तदाप्ययुक्तमसन्निविष्टेन प्रत्याहारायोगात् । उरुष्या ण इति । रुष्यतिः कण्ड्वादियगन्तो रक्षतिकर्मा लोट्, सेर्हिः, अतो हेः इति लुक्, न इत्यस्य नश्च धातुस्थोरुषुभ्यः इति णत्वम् ॥

Nyaas

नीकाशः इति। कासृ दीप्तौ (धातुपाठः-647)। पचाद्यजन्तोऽयं काशशब्दः न तु घञन्तः इति। तत्र पूर्वेणैव सिद्धमित्यभिप्रायः। पूर्वेणैव सिद्धे नियमार्थमेतत् - इक एव काशे नान्यस्य इति क्वचिद्? ग्रन्थः, एष तु नोपपद्यते; घञि पूर्वेण दीर्घविधानात्, एतस्य च काशशब्दस्य पचाद्यजन्तत्वात्। अथ बहुलग्रहणात्? पचाद्यजन्तेऽपि पूर्वेणैव सिद्धमित्युच्यते, तथा च तत एव बहुलग्रहणादिकोऽन्यस्यन भविष्यतीति न करत्तव्यमेवेदं सूत्रम्। क्रियमाणञ्च पूर्वस्यैव प्रपञ्चार्थ द्रष्टव्यम्॥

Prakriyasarvasvam

एषामृचि संहितायां दीर्घः स्यात् । आ तू नः । नूचित् सखा राजा मक्षूहि । तङिति लोण्मध्यमपुरुषस्य तशब्दस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङित्वं गतस्योक्तिः । पचता पक्तीः । कू चक्रेणेवस्तिष्वन् । त्रा२ अत्रा नो विश्पतिः । उरुष्याणः । संहिताभावे तु न । नु चित् ।