63127: चितेः कपि

Padacheda: चितेः | S | 6 | 1 |

कपि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The final word of चिति is lengthened before the affix कप्।

Vasu English Translation

The final word of चिति is lengthened before the affix कप्। Thus एकचितीकः, द्विचितीकः, त्रिचितीकः ॥

Kashika

चितिशब्दस्य कपि परतो दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः॥

Siddhanta Kaumudi

एकचितीकः ॥

Balamanorama

चितेः कपि - चितेः कपि । ‘दीर्घ’ इति शेषः । एकचितीक इति ।अग्न्याख्यस्थण्डिलविशेष॑ इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः ।

Tattvabodhini

चितेः कपि - एकचितीक इति ।शेषाद्बिभाषे॑ति कपे ।दंष्ट्रे॑ति वार्तिके दीर्घान्तः पबठते । केचित्तु ह्रस्वान्तं पठित्वाआआदंष्ट्रः॑इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे । इह षादिति ।काश्र्य॑इति तालव्यापाठस्त्वनार्ष इति भावः । वनस्पतिभ्यो वनस्य णत्वमुदाहरति ।

Nyaas

कोटरावणम् इति। षष्टीसमासः। वनं पुरुगा (8.4.4) इत्यादिना णत्वम्॥

Prakriyasarvasvam

एकचितीकः ।