63126: छन्दसि च

Padacheda: छन्दसि | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) also, the long vowel is substituted for the final of अष्टन् before a second member.

Vasu English Translation

In the छन्दस् (Vedas) also, the long vowel is substituted for the final of अष्टन् before a second member. Thus आग्नेयमष्टाकपालं निर्वपेत्, अष्टाहिरण्या दक्षिणा, अष्टापदी देवता सुमती ॥ The form अष्टापदी is the feminine in ङीप् (4.1.8) of अष्टपात् (5.4.138) the अ of पाद being elided in a Bahuvrihi)), पद् being substituted for पात् by (6.4.130).

Vart:- The final of अष्टन् is lengthened before गो even in the vernacular, when yoking is meant. Thus अष्टागवं शकटम् ॥

Kashika

छन्दसि विषयेऽष्टन उत्तरपदे दीर्घो भवति। आ॒ग्ने॒य॑म॒ष्टा॑क॒पालं॒ नि॑र्व॒पेत् (मै०सं० २.१.३)। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादावस्या इति बहुव्रीहौ पादस्य लोपे (५.४.१३८) कृते पादोऽन्यतरस्याम् (४.१.८) इति ङीप्॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्त व्यम्॥ अष्टागवं शकटम्॥

Siddhanta Kaumudi

अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ॥

Padamanjari

अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वतिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ॥

Nyaas

णह बन्धने (धातुपाठः-1166)। उपनह्रत इति उपानत् सम्पदादित्वात्? क्विप्? नहो धः (8.2.34) इति धत्वम्, ततो जश्त्वम्, चर्त्वञ्च। परिणह्रतीति परिणत्#उपसर्गादसमासे (8.4.14) इत्यादिना णत्वम्। निवर्तत इति नीवृत्अन्येभ्योऽपि दृश्यते (3.3.130) इति क्विप्। एवमुत्तरत्रापि क्विबेव वेदितव्यः। वृषु सेचने (धातुपाठः-706) प्रवर्षतीति प्रावृट्। षकारस्य जश्त्वम् -डकारः, तस्य चर्त्वेटकारः। व्यध ताडने (धातुपाठः-1181), मर्माणि विध्यतीति मर्मावित् ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। रुच दीप्तौ [रुच दीप्तावभिप्रीतौ च -धातुपाठः-] (धातुपाठः-745), निरोचणं नीरुक्चोः कुः (8.2.30) इति कुत्वम्। ऋतिं सहत इति ऋतीषट्सहेः पृतनर्ताभ्याञ्ज (8.3.109) इत्यत्र सहेः इति योगविभागादनुक्तसमुच्चयार्थत्वाद्वा चकारस्य षत्वम्। परितनोतीति परीतत्। अनुनासिकलोपे कृते तुक्।केन पुनरत्रानुनासिकलोपः? इत्याह -गमः क्वौ इत्यादि। गतिकारकयोरेवेष्यत इति। तदर्थम्? विभाषा पुरुषे (6.3.106) इत्यतो विभाषाग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञेया॥

Prakriyasarvasvam

अष्टन उत्तरपदे परे दीर्घः स्यात् । अष्टापदी नवपदी । अत्र ‘पादोऽन्यतर- स्याम्’ (४-१-८) इति ङीप् । पादः पत् (६-४-१३०) । अत्र संहिताधिकारे सत्यपि दीर्घान्तमेवागृह्णन्ति ।

Vartika

भाषायामाष्टनो दीर्घो भवतीति वक्तव्यम् ।