63127: चितेः कपि ================ **Padacheda:** चितेः | S | 6 | 1 | कपि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The final word of चिति is lengthened before the affix कप्। Vasu English Translation ------------------------ The final word of चिति is lengthened before the affix कप्। Thus एकचितीकः, द्विचितीकः, त्रिचितीकः ॥ Kashika ------- चितिशब्दस्य कपि परतो दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः॥ Siddhanta Kaumudi ----------------- एकचितीकः ॥ Balamanorama ------------ **चितेः कपि** - चितेः कपि । 'दीर्घ' इति शेषः । एकचितीक इति ।अग्न्याख्यस्थण्डिलविशेष॑ इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः । Tattvabodhini ------------- **चितेः कपि** - एकचितीक इति ।शेषाद्बिभाषे॑ति कपे ।दंष्ट्रे॑ति वार्तिके दीर्घान्तः पबठते । केचित्तु ह्रस्वान्तं पठित्वाआआदंष्ट्रः॑इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे । इह षादिति ।काश्र्य॑इति तालव्यापाठस्त्वनार्ष इति भावः । वनस्पतिभ्यो वनस्य णत्वमुदाहरति । Nyaas ----- `कोटरावणम्` इति। षष्टीसमासः। `वनं पुरुगा` (8.4.4) इत्यादिना णत्वम्॥ Prakriyasarvasvam ----------------- एकचितीकः ।