63128: विश्वस्य वसुराटोः

Padacheda: विश्वस्य | S | 6 | 1 |

वसु-राटोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The final vowel of विश्व is lengthened before वसु and राट् (the form assumed by राज्).

Vasu English Translation

The final vowel of विश्व is lengthened before वसु and राट् (the form assumed by राज्). Thus विश्वावसुः, विश्वाराट् ॥ The rule applies to the राट् form of राज in the Nominative singular, and not when it retains its own form: as विश्वराजौ, विश्वराजः ॥

Kashika

विश्वशब्दस्य वसु राडित्येतयोरुत्तरपदयोर्दीर्घ आदेशो भवति। विश्वावसुः। विश्वाराट्। राडिति विकारनिर्देशो यत्रास्यैतद् रूपं तत्रैव यथा स्यात्। इह न भवति — विश्वराजौ। विश्वराजः॥

Siddhanta Kaumudi

विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ॥

Laghu Siddhanta Kaumudi

विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राट्शब्दे च परे। विश्वाराट्, विश्वाराड्। विश्वराजौ। विश्वाराड्भ्याम्॥

Balamanorama

विश्वस्य वसुराटोः - तस्य विशेषमाह — विआस्य वसु । ‘ढ्रलोपे’ इत्यतोदीर्घ इत्यनुवर्तते । तदाह — विआशब्दस्येति । विआवस्विति ।वसुग्र्रहेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ॑ इति कोशः ।विआआवसु॑रित्युदाहरणं प्रासङ्गिकम् । ‘आदित्याविआवसवः’ इत्यमरप्रयोगे तु न दीर्घः,नरे संज्ञाया॑मित्यतः संज्ञाग्राहणापकर्षात् । ननु राट्शब्दस्य कृतचर्त्वस्य निर्देशाज्जश्त्वे सति दीर्घो न स्यादित्यत आह — राडिति अविवक्षितमिति । व्याख्यानादिति भावः । विआआराट् विआआराडिति ।व्रश्चे॑ति षत्वम् । जश्त्वचर्त्वे । चर्त्वनिर्देशस्य पदान्तोपलक्षणत्वाज्जश्त्वपक्षेऽपि दीर्घः द्यपि त्रैपादिकंव्रश्चे॑ति षत्वंचोः कु॑रिति कुत्वात्परम्, तथापि चवर्गान्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम्,अपवादो वचनप्रामाण्यात् इति विआराजाविति । अपदान्तत्वान्न दीर्घ इति भावः ।भ्रस्ज पाके॑क्विप् । ‘ग्राहिज्या’ इति संप्रसारणं रेफस्य ऋकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । भृस्ज्शब्दः । ततः सुबुत्पत्तिः ।

Tattvabodhini

विश्वस्य वसुराटोः - विआस्य वसु ।ढ्रलोपे॑इत्यतोऽनुवर्तनादाह -विआशब्दस्य दार्घः स्यादिति ।

Padamanjari

विश्वाराढिति । विश्वस्मित्राजत इति सत्सूद्विष इत्यादिना क्विप् । यत्रास्यैतदिति । पदसंज्ञाविषयं इत्यर्थः ॥

Nyaas

विश्वावसुः इति। विश्वं वसु यस्येति बहुव्रीहिः। विश्वाराट् इति। विश्वस्मिन्? राजत इति सत्सूद्विष (3.2.61) इत्यादिना क्विप्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, तस्य झलां जशोन्ते (8.2.39) इति जश्त्वम् -डकारः, डकारस्यापि चर्त्वम् -टकारः।यत्रास्यैतद्रूपम् इति। क्व पुनरस्यैतद्रूपम्? यत्र पदसंज्ञा; पदाधिकारे षकारादीनां विधानात्। विश्वराजौ, विश्वराजः इति। अत्र पदसंज्ञा नास्ति, असर्वनामस्थाने (1.4.17) इति प्रतिषेधात्॥

Prakriyasarvasvam

विश्वावसुः । विश्वाराट् । राडूप एवास्ति । अन्यत्र न । विश्वराजौ । विश्वराजः ।

Sudha

विश्वस्य वसुराटोरिति । अत्र **ढ्रलोपे पूर्वस्य दीर्घोऽणः**(6.3.111) इत्यतो दीर्घ इत्यनुवर्तते । विश्वाराट् । विश्वराज् + सु इत्यत्र सोर्लोपे **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति जस्य षत्वे **झलां जशोऽन्ते**(8.2.39) इति षस्य डत्वे **वाऽवसाने**(8.4.56) इति डस्य टत्वे **विश्वस्य वसुराटोः**(6.3.128) इति दीर्घत्वे च विहिते ‘विश्वाराट्’ इति । पक्षे - ‘विश्वाराड्’ इति ।