63119: मतौ बह्वचोऽनजिरादीनाम्

Padacheda: मतौ | S | 7 | 1 |

बह्वचः | S | 6 | 1 |

अ-नजिरादीनाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The final vowel of a word consisting of more than two syllables in lengthened before the affix मत् when it is a name, but not of the words अजिर् etc.

Vasu English Translation

The final vowel of a word consisting of more than two syllables in lengthened before the affix मत् when it is a name, but not of the words अजिर् etc. Thus उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती, अमरावती ॥ These are formed by the affix मतुप् (4.2.85) The मत् is changed to वत्, by (8.2.11). Why do we say ‘of a word consisting of more than two syllables’? Observe व्रीहिमती ॥ Why ‘with the exception of अजिर &c’. Observe अजिरवती, खदिरवती, पुलिनवती, हंसकारण्डवती, चक्रवाकवती ॥ When the word is not a name, there is no lengthening, as वलयवती ॥

1 अजिर, 2 खदिर, 3 पुलिन, 4 हंस, 5 कारण्डव (हंसकारण्डव) 6 चक्रवाक.

Kashika

मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। नद्यां मतुप्**(४.२.८५) इति मतुप्प्रत्ययः। **संज्ञायाम् (८.२.११) इति मतोर्वत्वम्। बह्वच इति किम्? व्रीहिमती। अनजिरादीनामिति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायामित्येव — वलयवती॥

Siddhanta Kaumudi

अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥

Balamanorama

मतौ बह्वचोऽनजिरादीनाम् - मतौ । मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः ।

Tattvabodhini

मतौ बह्वचोऽनजिरादीनाम् - अमरावतीति ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मतोर्मस्य वः । घञ्मात्रस्योत्तरपदत्वाऽसंभवादाह —

Padamanjari

संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ॥

Nyaas

आदिशब्दः प्रकारवचनः इति। यद्यत्रादिशब्दो व्यवस्थावचन आश्रीयेत, ततो, यान्येव गणे पठन्ते तेषामेव साधुत्वं स्यात्, नान्येषाम्। प्रकारवचन आदिशब्द आश्रीयमाणे सत्यपरिपठितानामपिमपि साधुभावो भवतीत्येतत्? सर्व चेतसि कृत्वाऽऽविशब्दोऽयं प्रकारवचन इति दर्शयन्नाह - पृषोदरप्रकाराणि इत्यादि। प्रकारः=सादृश्यम्। अतस्तद्दर्शयितुमाह - येषु इत्यादि। यथा पृषोदरशब्दे लोपकार्यं शास्त्रेणाविहितं दृश्यते, तथान्यत्रापि लोपादिकार्यं शास्त्रेणाविहितं दृश्यते। तानि च पृषोदरप्रकाराणि भवन्ति। यथोपदिष्टम् इति। यथाऽसादृश्यते (2.1.7) इति वीपसायामव्ययीभावः। अत एवास्य विवरणं करोति - यानि यान्युपदिष्टानि इत्यादि। दिशिस्त्रोच्चारणक्रियः। उपदिष्टान्युच्चारितानीत्तयर्थः। कैः पुनरुपदिष्टानि? शिष्टैः। शिष्टाः पुनराचारनिवासादिना वेदितव्याः। तानि तथैवानुमन्तव्यानि इति। यथा तैः प्रयुक्तानि तथैव तानि साधुत्वेनानुमन्तव्यानीत्यर्थः। यदि शिष्टाः शब्देषु प्रमाणं तद किमनयाऽष्टाध्याय्या, शिष्टवचनादेव हि शब्दानां साधुत्वं विज्ञास्यते? उच्यते; शिष्टपरिज्ञानार्थाऽष्टाध्यायी। अष्टाध्यायीमधीयानोऽनधीताष्टाध्यायीकमपि येऽस्यामष्टाध्याय्यां विहिताः शब्दास्तान्? प्रयञ्जानं पश्यन्नेवमध्यवस्यति - शिष्टोऽयमिति, न चासावष्टाध्यायीमधीतवान्, अथ च तस्यां ये व्युत्पादिताः शब्दास्तान्? प्रयुङ्क्ते, नूनमयमन्यानपि जानाति - इत्येषा शिष्टपरिज्ञानार्थाऽष्टाध्यायी। एवमन्येऽपि इत्यादि। कप्यआमहीशब्देपूपपदेषु सुपि स्थः (3.2.4) इति तिष्ठतेः कप्रत्ययः। सकारस्य तकारः क्रियते। महीशब्दस्यापि ह्रस्वत्वम्। दक्षिणतारम् इति। षष्ठीसमासः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः (वा।104) इति पुंवद्भावः। अथ वा - दक्षिणशब्दस्यायं तीरशब्देन षष्ठीसमासः।वाचोवादे इति। वाक्यशब्दस्य वादशब्द उत्तरपदे परतो डकारादेशो भवति। उत्तरपदस्य च वादशब्दस्य वल इत्ययमादेशो भवतीञि प्रत्यये परत इति। वाचं वदतीति कर्मण्यण् (3.2.1) - वाग्वाद, तस्यापत्यम्? ` अत इञ्` (4.1.95) वाङ्वलिः। षष उत्वम् इत्यादि। षष्शब्दस्योत्वं भवति दतृ, दश-इत्येतयोरुत्तरपदयोः, उत्तरपदादेः ष्टुत्वं च। षङ्? दन्ता यस्येति बहुव्रीहिः। वयस दन्तस्य दतृ (5.4.141) इति दत्रादेशः - षोडन्। षट्? च दश चेति द्वन्द्वः - षोडश। धासु वा इति। उत्वत्यैवायं विकल्पः। ष्टुत्वं तु नित्यमेव भवति। षोढा, षङ्धा इति। अधिकरणविचाले च (5.3.43) इति धाप्रत्ययः। अथ किमर्थं धास्विति बहुवचननिर्देशः क्रियते? इत्याह - बहुवचननिर्देशः इत्यादि। षङ्धा इति। धाञो धेटो वा स्त्रियां आतोऽनुपसर्गे कः (3.2.3) इति कप्रत्ययः। दाश्यते इतिष दाशृ दाने (धातुपाठः-882), नाश्यते` इति, णश अदर्शने (धातुपाठः-1194), दभ्यते इति, दम्भ [`दम्भु दम्भने (1270) इति धातु पाठः] दम्भे - एतेभ्यः कर्मणि घञ्। दुर्शशब्दस्य दाशशब्दादिभिः प्रादिसमासे - दूडाशः दूणाशः, दूडभः। दम्भेरनुनासिकलोपः इत्यादि। यदेतत्? दाशनाशदभध्येषु (काचवृ।6.3.120) इत्यत्र कृतानुनासिकलोपस्य दम्भेरुच्चारणं तन्निपातनम्, तत एवात्र दम्भेरनुनासिलोपो भवति। पीद उपवसनं येषां ते पीवोपवसनाः एवं पयोपवसनाः। उभयत्र सकारलोपः। वर्णागमः इति। निरुक्तशास्त्रे ये शब्दा व्युत्पाद्यन्ते तेषां पूषोदरादित्वादेव साधुत्वमिष्यति इतीमं श्लोकमाह - वर्णागमः इत्यादि। अपूर्वस्य वर्णस्यागमो वर्णागमः - नकारादेरपूर्वस्य वर्णस्य प्राप्तिः, यथा - को जीर्यते कुञ्जर इति। अत्र कुशब्दसय नुगागमः क्रियते। वर्णविपर्ययः - वर्णस्थानव्यत्यासः, यथा हिसि हिंसायाम् (धातुपाठः-1456), हिनस्तीति सिंह इत्यत्र पचाद्यचि कृते हकारसकारयोः स्थानव्यत्यासः। वर्णविकारः - वर्णस्य रूपान्तरापत्तिः, यथा - षोडन्निति। अत्र ,खारस्योत्वरूपापत्तिः। दकारस्य च डकाररूपापत्तिः। वर्णनाशः - वर्णस्य लोपः, यथा पृषोदर इति। अत्र तकारस्य लोपः। अर्थातिशयः=अर्थविशेषः, प्रसिद्धादर्थादर्थान्तरम्, तेन धातोर्योगः=सम्बनधः, यथा मह्रां रोतीति मयूरः। अत्र रौते रमणेनार्थेनातिशयेन योगः। एतत्? पञ्चविधं पञ्चप्रकारं निरुक्तम्, निश्चयेनोच्यतेऽर्थोऽनेनेति निरुक्तम्॥