63118: वले

Padacheda: वले | S | 7 | 1 |

Sutrartha


Vasu English Summary

The final of the preceding word is lengthened before the affix वल।

Vasu English Translation

The final of the preceding word is lengthened before the affix वल। Thus आसुतीवलः, कृषीवलः, दन्तावलः ॥ These are formed by the affix वलच् (5.2.112).

Vart:- Not so, of उत्साह, भ्रातृ and पितृ : as उत्साहवलः, भ्रातृवलः and पितृवलः ॥

Kashika

वले परतः पूर्वस्य दीर्घो भवति। आसुतीवलः। कृषीवलः। दन्तावलः। रजःकृष्या — सुतिपरिषदो वलच् (५.२.११२) इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितृणामित्येव — उत्साहवलः। भ्रातृवलः। पितृवलः॥

Siddhanta Kaumudi

वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥

Balamanorama

वले - वसे । कृषीवल इति । कृषिरस्यास्तीति विग्रहेरजःकृष्यासुती॑त्यादिना वलच् ।

Tattvabodhini

वले - कृषीवल इति ।रजः कृष्यासुती॑त्यादिना मत्वर्थे वलच् ।

Padamanjari

वलच्प्रत्ययो गृह्यत इति । वक्ष्यमाणेन मतुपा साहर्यात् । तेन वल संवरणे इत्यतः पचाद्यचि यत्प्रातिपदिकं तत्र दीर्घो न भवति । अण इत्येव - भर्तुवलः ॥

Nyaas

वलच्प्रत्ययो गृह्रते, न प्रातिपदिकम् इति। एतच्च वक्ष्यमाणस्येह बहुलग्रहणस्य सिंहावलोकितन्याायेनोपस्थानाल्लभ्यत इत्येके। अनन्तरं वक्ष्यमाणेन मतुपा प्रत्ययेन साहचर्याच्चेत्यपरे ॥

Prakriyasarvasvam

वले परे पूर्वस्याणो दीर्घः स्यात् । कृषीवलः । आसुतीवलो यज्वा शौण्डिकश्च । परिषद्वलो नृपः । एकदेशविकृतत्वात् पर्षद्वलः । ‘वलजन्येभ्योऽपि वाच्यः’ । मदावलः भ्रातृवलः । पुत्रावलः । उत्सङ्गावलः । हरस्तु शत्रुवलः उत्साहवल इति च वदन् वल इत्यत्र संज्ञाधिकाराद्दीर्घमाह । तन्मते पुत्रावलादावनाम्नि ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति दीर्घः ।

Sutra Prayogas

  • कृषीवलैः (किरातार्जुनीयम्): वले इति दीर्घः।