63119: मतौ बह्वचोऽनजिरादीनाम् ============================= **Padacheda:** मतौ | S | 7 | 1 | बह्वचः | S | 6 | 1 | अ-नजिरादीनाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The final vowel of a word consisting of more than two syllables in lengthened before the affix मत् when it is a name, but not of the words अजिर् etc. Vasu English Translation ------------------------ The final vowel of a word consisting of more than two syllables in lengthened before the affix मत् when it is a name, but not of the words अजिर् etc. Thus उदुम्बरावती, मशकावती, वीरणावती, पुष्करावती, अमरावती ॥ These are formed by the affix मतुप् (4.2.85) The मत् is changed to वत्, by (8.2.11). Why do we say 'of a word consisting of more than two syllables'? Observe व्रीहिमती ॥ Why 'with the exception of अजिर &c'. Observe अजिरवती, खदिरवती, पुलिनवती, हंसकारण्डवती, चक्रवाकवती ॥ When the word is not a name, there is no lengthening, as वलयवती ॥ 1 अजिर, 2 खदिर, 3 पुलिन, 4 हंस, 5 कारण्डव (हंसकारण्डव) 6 चक्रवाक. Kashika ------- मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। **नद्यां मतुप्**(४.२.८५) इति मतुप्प्रत्ययः। **संज्ञायाम्** (८.२.११) इति मतोर्वत्वम्। बह्वच इति किम्? व्रीहिमती। अनजिरादीनामिति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायामित्येव — वलयवती॥ Siddhanta Kaumudi ----------------- अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥ Balamanorama ------------ **मतौ बह्वचोऽनजिरादीनाम्** - मतौ । मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः । Tattvabodhini ------------- **मतौ बह्वचोऽनजिरादीनाम्** - अमरावतीति ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मतोर्मस्य वः । घञ्मात्रस्योत्तरपदत्वाऽसंभवादाह — Padamanjari ----------- संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ॥ Nyaas ----- `आदिशब्दः प्रकारवचनः` इति। यद्यत्रादिशब्दो व्यवस्थावचन आश्रीयेत, ततो, यान्येव गणे पठन्ते तेषामेव साधुत्वं स्यात्, नान्येषाम्। प्रकारवचन आदिशब्द आश्रीयमाणे सत्यपरिपठितानामपिमपि साधुभावो भवतीत्येतत्? सर्व चेतसि कृत्वाऽऽविशब्दोऽयं प्रकारवचन इति दर्शयन्नाह - `पृषोदरप्रकाराणि` इत्यादि। प्रकारः=सादृश्यम्। अतस्तद्दर्शयितुमाह - `येषु` इत्यादि। यथा पृषोदरशब्दे लोपकार्यं शास्त्रेणाविहितं दृश्यते, तथान्यत्रापि लोपादिकार्यं शास्त्रेणाविहितं दृश्यते। तानि च पृषोदरप्रकाराणि भवन्ति। `यथोपदिष्टम्` इति। `यथाऽसादृश्यते` (2.1.7) इति वीपसायामव्ययीभावः। अत एवास्य विवरणं करोति - `यानि यान्युपदिष्टानि` इत्यादि। दिशिस्त्रोच्चारणक्रियः। उपदिष्टान्युच्चारितानीत्तयर्थः। कैः पुनरुपदिष्टानि? शिष्टैः। शिष्टाः पुनराचारनिवासादिना वेदितव्याः। `तानि तथैवानुमन्तव्यानि` इति। यथा तैः प्रयुक्तानि तथैव तानि साधुत्वेनानुमन्तव्यानीत्यर्थः। यदि शिष्टाः शब्देषु प्रमाणं तद किमनयाऽष्टाध्याय्या, शिष्टवचनादेव हि शब्दानां साधुत्वं विज्ञास्यते? उच्यते; शिष्टपरिज्ञानार्थाऽष्टाध्यायी। अष्टाध्यायीमधीयानोऽनधीताष्टाध्यायीकमपि येऽस्यामष्टाध्याय्यां विहिताः शब्दास्तान्? प्रयञ्जानं पश्यन्नेवमध्यवस्यति - शिष्टोऽयमिति, न चासावष्टाध्यायीमधीतवान्, अथ च तस्यां ये व्युत्पादिताः शब्दास्तान्? प्रयुङ्क्ते, नूनमयमन्यानपि जानाति - इत्येषा शिष्टपरिज्ञानार्थाऽष्टाध्यायी। `एवमन्येऽपि` इत्यादि। कप्यआमहीशब्देपूपपदेषु **सुपि स्थः** (3.2.4) इति तिष्ठतेः कप्रत्ययः। सकारस्य तकारः क्रियते। महीशब्दस्यापि ह्रस्वत्वम्। `दक्षिणतारम्` इति। षष्ठीसमासः। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः` (वा।104) इति पुंवद्भावः। अथ वा - दक्षिणशब्दस्यायं तीरशब्देन षष्ठीसमासः।`वाचोवादे` इति। वाक्यशब्दस्य वादशब्द उत्तरपदे परतो डकारादेशो भवति। उत्तरपदस्य च वादशब्दस्य वल इत्ययमादेशो भवतीञि प्रत्यये परत इति। वाचं वदतीति **कर्मण्यण्** (3.2.1) - वाग्वाद, तस्यापत्यम्? ` अत इञ्` (4.1.95) वाङ्वलिः। `षष उत्वम्` इत्यादि। षष्शब्दस्योत्वं भवति दतृ, दश-इत्येतयोरुत्तरपदयोः, उत्तरपदादेः ष्टुत्वं च। षङ्? दन्ता यस्येति बहुव्रीहिः। `वयस दन्तस्य दतृ` (5.4.141) इति दत्रादेशः - षोडन्। षट्? च दश चेति द्वन्द्वः - षोडश। `धासु वा` इति। उत्वत्यैवायं विकल्पः। ष्टुत्वं तु नित्यमेव भवति। `षोढा, षङ्धा` इति। **अधिकरणविचाले च** (5.3.43) इति धाप्रत्ययः। अथ किमर्थं धास्विति बहुवचननिर्देशः क्रियते? इत्याह - `बहुवचननिर्देशः` इत्यादि। `षङ्धा` इति। धाञो धेटो वा स्त्रियां **आतोऽनुपसर्गे कः** (3.2.3) इति कप्रत्ययः। `दाश्यते` इतिष `दाशृ दाने` (धातुपाठः-882), नाश्यते` इति, `णश अदर्शने` (धातुपाठः-1194), `दभ्यते` इति, `दम्भ [`दम्भु दम्भने` (1270) इति धातु पाठः] दम्भे - एतेभ्यः कर्मणि घञ्। दुर्शशब्दस्य दाशशब्दादिभिः प्रादिसमासे - दूडाशः दूणाशः, दूडभः। `दम्भेरनुनासिकलोपः` इत्यादि। यदेतत्? `दाशनाशदभध्येषु` (काचवृ।6.3.120) इत्यत्र कृतानुनासिकलोपस्य दम्भेरुच्चारणं तन्निपातनम्, तत एवात्र दम्भेरनुनासिलोपो भवति। पीद उपवसनं येषां ते `पीवोपवसनाः` एवं `पयोपवसनाः`। उभयत्र सकारलोपः। `वर्णागमः` इति। निरुक्तशास्त्रे ये शब्दा व्युत्पाद्यन्ते तेषां पूषोदरादित्वादेव साधुत्वमिष्यति इतीमं श्लोकमाह - `वर्णागमः` इत्यादि। अपूर्वस्य वर्णस्यागमो वर्णागमः - नकारादेरपूर्वस्य वर्णस्य प्राप्तिः, यथा - को जीर्यते कुञ्जर इति। अत्र कुशब्दसय नुगागमः क्रियते। वर्णविपर्ययः - वर्णस्थानव्यत्यासः, यथा `हिसि हिंसायाम्` (धातुपाठः-1456), हिनस्तीति सिंह इत्यत्र पचाद्यचि कृते हकारसकारयोः स्थानव्यत्यासः। वर्णविकारः - वर्णस्य रूपान्तरापत्तिः, यथा - षोडन्निति। अत्र ,खारस्योत्वरूपापत्तिः। दकारस्य च डकाररूपापत्तिः। वर्णनाशः - वर्णस्य लोपः, यथा पृषोदर इति। अत्र तकारस्य लोपः। अर्थातिशयः=अर्थविशेषः, प्रसिद्धादर्थादर्थान्तरम्, तेन धातोर्योगः=सम्बनधः, यथा मह्रां रोतीति मयूरः। अत्र रौते रमणेनार्थेनातिशयेन योगः। एतत्? पञ्चविधं पञ्चप्रकारं निरुक्तम्, निश्चयेनोच्यतेऽर्थोऽनेनेति निरुक्तम्॥