63120: शरादीनां च

Padacheda: शरादीनाम् | S | 6 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The final vowel of शर etc. is lengthened before मत् when it is a name.

Vasu English Translation

The final vowel of शर etc. is lengthened before मत् when it is a name. As शरावती, वंशावती ॥ The म of मत् is changed to व because it is a Name (8.2.11). But not so after व्रीहि &c as these belong to यवादि class (8.2.9).

1 शर, 2 वंश, 3 धूम, 4 अहि, 5 कपि 6 मणि, 7 मुनि, 8 शुचि, 9 हनु.

Kashika

शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती॥ शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। **संज्ञायाम्**(८.२.११) इति मतोर्वत्वम्। यवादित्वाद् (८.२.९) व्रीह्यादिभ्यो न भवति॥

Siddhanta Kaumudi

शरावती ॥

Balamanorama

शरादीनां च - शरादीनां च । मतौ दीर्घः संज्ञाया॑मिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम ।

Nyaas

द्व्योरह्नोर्भवः इति। भवार्थविवक्षायां तद्धितार्थ (2.1.50) इति समासः, ततः कालाट्ठञ् (4.3.11) इति ठञ्, तस्य द्विगोर्लृगनपत्ये (4.1.88) इति लुक्, राजाहःसखिभ्यष्टच् (5.4.91) इति टच्? समासान्तः, अह्नोऽह्न एतेब्यः (5.4.88) इत्यह्नादेशः। द्रह्नि इति। विभाषा ङिश्योः` (6.4.136) इत्यकारलोपः पाक्षिकः। द्व्यह्नः इति। आद्? गुणः (6.1.84) । व्यह्नः इति प्रादिसमासः। शेषं पूर्ववत्। सायाह्नः इति। एकदेशिसमासोऽयम्। तत्रेदं चोद्यमाशङ्क्यते -ननु च पूर्वापराधरोत्तरम् (2.2.1) इत्यादिना समासो विहितः, न च सायंशब्दस्तत्र पठते, तत्कथमिह सायंशब्दसायहःशब्देन समासः सम्भवतीति? एतन्निराकर्त्तुमाह -एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि इत्यादि। तत्पुरुषसमासे अह्नोऽह्न एतेभ्यः (5.4.88) इत्यनेनाह्नादेशो विधीयते, एतेभ्यः इत्यनेन च तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः? (5.4.86) इति, तथा `अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः (5.4.87) इति प्रक्रान्ताः संख्याव्ययादयः प्रत्यवमृश्यन्ते। तत्र यदि पूर्वादय एवैकदेशिना समस्येरन्, तदा न सायंशब्दः एतेभ्यः इत्यनेन प्रत्यवमृश्येत; तस्य संख्यादिष्वपरिपठितत्वात्। ततश्च सायंशब्दात्? परस्याह्यादेशो न स्यात्। एवञ्च सायम्पूर्वस्याह्नशब्दस्याभावात्? तस्येह ग्रहणं न क्रियेत, कृतञ्च, तस्मादेतदेव सायम्पूर्वस्याह्नशब्दस्य ग्रहणं ज्ञापयति -पूर्वादिभ्योऽन्यस्याप्येकदेशिसमासो भवतीति। तेन मध्यमह्नो मध्याह्नः इति सिद्धं भवति। पूर्वाह्णे इति। अह्नोऽदन्तात् (8.4.7) इति णत्वम्। संख्याविसायेभ्यः इत्येव वक्तव्ये पूर्वशब्दस्याधिकस्य ग्रहणं तदधिककार्यवधानसूचनार्थम्। तेन सायाह्न इत्यत्र मकारलोपः सिद्धो भवति॥

Prakriyasarvasvam

एषां मतौ नाम्नि दीर्घः स्यात् । शरावती नदी । <karika>एवं मुनीवतीं सिन्धुः कपीवत्यप्यहीवती । संज्ञायामिति सूत्रेण नाम्नि वत्वमिदं मतोः ॥ २३६ ॥</karika> <karika>भागीरथी भैमरथी तन्निर्वृत्तं नदीद्वयम् । तत्र नद्यां मतुब् नेष्टो निर्वृत्तेऽणेव चेष्यते ॥ २३७ ॥</karika>

Sutra Prayogas

  • हनूमत्कथितप्रवृत्तिः (रघुवंशम्): शरादीनां च इति दीर्घः।

  • कुशावत्यां (रघुवंशम्): शरादीनां च इति कुश शब्दस्य दीर्घः।

  • शरावत्यां (रघुवंशम्): शरादीनां च इति शर शब्दस्य दीर्घः।