63108: पथि च च्छन्दसि¶
Padacheda: पथि | S | 7 | 1 |
च | S | 0 | 0 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
This substitution of का and कव for कु takes place in the छन्दस् (Vedas) before पथ।
Vasu English Translation¶
This substitution of का and कव for कु takes place in the छन्दस् (Vedas) before पथ। Thus कवपथः, कापथः and कुपथः ॥
Kashika¶
पथिशब्द उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा। कवपथः, कापथः, कुपथः॥
Siddhanta Kaumudi¶
पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥
Balamanorama¶
पथि च च्छन्दसि - इत्यकारलोपे प्र च् अस् इति स्थिते — चौ । अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम् । ‘ढ्रलोपे’ इत्यतःपूर्वस्य दीर्घोऽणः॑ इत्यनुवर्तते । तदाह — लुप्तेति । प्राचेति । यद्यपि ‘अचः’ इत्यल्लोपस्य ‘चौ’ इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण ‘प्राच’ इति सिध्यति, तथापि ‘प्रतीचः’ इत्याद्यर्थं सूत्रम् । प्राग्भ्यामिति । प्राच्-भ्याम् इति स्थिते ‘चोः कुः’ इति कुत्वं,क्विन्प्रत्ययस्य कुः॑ इति कुत्वस्याऽसिद्धत्वात् । इत्यादीति । प्राग्भिः । प्राचे । प्राचः २ । प्राचोः २ । प्राक्षु । प्रत्यङ्ङिति । प्रतिपूर्वादञ्चेः क्विन्, यण्, ‘अनिदिताम्’ इति नलोपः, सुबुत्पत्तिः ।उगिदचा॑मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । प्रत्यञ्चाविति । प्रत्यच्-औ इति स्थितेउगिदचा॑मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ ।ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृतेअनिदिता॑मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात्उगिदचा॑मिति नुमभावे ‘अचः’ इत्यकारलोपे ‘चौ’ इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्चेति स्यादित्यत आह — अचेति लोपस्येत्यादि । ‘अचः’ इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते ‘अचः’ इत्यकारलोपे सति ‘चौ’ इति इकारस्य दीर्घे ‘प्रतीच’ इति रूपां निर्बाधम् । एतदर्थमेव ‘अचः’ इति ‘चौ’ इति चारब्धम् ।प्राचः पश्ये॑त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः । भाष्ये तु ‘चौ’ इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न चप्राचः पश्ये॑त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात् ।वार्णादाङ्गं बलीयः॑ इति परिभाषया ‘अचः’ इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः । अद्स् अञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते ‘अनिदिताम्’ इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः ।
Tattvabodhini¶
पथि च च्छन्दसि - चौ ।चजोः॑इति निर्देशाच्चवर्गग्रहणं न भवतीत्याह -लुप्ताकारनकारेञ्चताविति । अत्राऽकारलोपेन नकारलोपस्याक्षिप्तत्वात्तत्कथनं व्यर्थमेव, किंतु लुप्ताऽकारेऽञ्चातावित्येव सुवचमित्याहुः ।ढ्रलोपे॑इति सूत्रादणो दीर्घ इत्यस्य चानुवर्तमादाह — अणो दीर्घः स्यादिति । प्राचः । प्राचेति ।प्रतीचः॑इत्याद्यर्थमवश्यंस्वीकार्येऽतोलोपे कृतेऽनेन दीर्घो विधीयत इति भावः । प्राग्भ्यामिति ।चोः कुः॑इति कुत्वं, न तुक्विन्प्रत्ययस्ये॑त्यनेन, तस्याऽसिद्धात्वात् ।
Nyaas¶
अनूपः इति। अनुगता आपोऽस्मिन्निति विग्रहः, पूर्ववत्? समासान्तः, सवर्णदीर्घः। अथ दीर्घोच्चारणं किमर्थम्, यावता ह्रस्वोऽपि विहितेऽकः सवर्णे दीर्घत्वेनानूप इति सिध्यत्येव? अत आह -दीर्घोच्चारणम् इत्यादि। असति दीर्घोच्चारणे संहितायामेव दीर्घत्वं स्यात्, नावग्रहे। तस्मादवग्रहेऽपि यथा स्यादित्येवमर्थ दीर्घोच्चारणम्॥
Prakriyasarvasvam¶
कोः पथि परे कवादेशः कादेशश्च वा स्यात् । कवपथः कापथः कुपथः । छन्दसि कवादेशोऽन्यत्रापीति हरदत्तः । न कवा*दिभ्यः । केवलस्य कोः कवादेशो दृष्ट इति स एवाह । कवा तिर्यङ्कुपतिष्ठते । ईषत्तिर्यङित्यर्थः—। पृषोदरादौ- <karika> दाशनाशदभध्येपुदुरऊत्वंपरस्य दुः दुःखेन देयो दूळाशो दूणाशो दूळभश्च खल् । व्याजहिंसार्थकाद् दम्भेर्नलोपोऽत्र निपातनात् दुष्टं ध्यायति दूढ्योऽसौ नैते छन्दोधिकारगाः ॥ ८७८ ॥ स्वः शब्दस्य र उत्वं स्यान्निगमे रोहतौ परे दृशि चेत्युत्ववदिदं सुवो रोहावहीत्यतः । सुवा रोहावहीति स्यात् प्रातरथवदन्यथा पीवोपवसनादीनां लोपोऽत्र छन्दसीष्यते ॥ पीवसेर्हि सलोपोऽयमेवं सिद्धं रजेषितम् ॥ ८७९ ॥ </karika>