63107: कवं चोष्णे

Padacheda: कवम् | S | 1 | 1 |

च | S | 0 | 0 |

उष्णे | S | 7 | 1 |

Sutrartha


Vasu English Summary

का and कवङ् are optionally the substitutes of कु when उष्ण follows.

Vasu English Translation

का and कवङ् are optionally the substitutes of कु when उष्ण follows. As कवोष्णम्, कोष्णम् or कदुष्णम् ॥

Kashika

उष्णशब्द उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्॥

Siddhanta Kaumudi

उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥

Balamanorama

कवं चोष्णे - कवं चोष्णे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाऽभावे कदादेशः । तथा च रूपत्रयम् । तदाह — कोष्णं कवोष्णं कदुष्णमिति ।

Padamanjari

च्छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषतिर्थङ्त्यिर्थः ॥

Nyaas

द्वीपम् इति। द्विर्गता आपोऽस्मिन्नित्यस्वपदविग्रहो बहुव्रीहिः। यथा -शोभनं मुखमस्याः सुमुखीति। ऋक्पूरब्धूः (5.4.74) इत्यादिनाऽकारः समासान्तः। अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम्। सङ्गता विगता निर्गता आपोऽस्मिन्निति सपीपम्, वीपम्, नीपम्। वक्तव्यम् इति। व्याख्येयमित्यर्थः। उत्तरत्रापि वक्तवयशब्दस्यायमेवार्थः। व्याख्यानं त्विहापि पूर्ववत्? विभाषोदरे इत्यतो विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। अन्यदपि चत्र व्याख्यानं करिष्यामः। अप्शब्दं प्रति इत्यादि। इह यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति अप्शब्दसय तु क्रियात्वं न सम्भवति; द्रव्यवचित्वात्। तस्मात्? तं प्रति नास्ति कस्यचिदुपसर्गसंज्ञेति। क्रियते चेदमुपसर्गग्रहणम्। तत्सामर्थ्याद्यत्र प्रादेरन्यत्रोपसरगतवं दृष्टं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते। यद्येवम्, अन्तशब्दस्य ग्रहणं न कर्तव्यम्, यथैव हि प्रादय उपसर्गग्रहणेन लक्ष्यन्ते तथान्तःशब्दोऽपि, तस्याङ्कविधिणत्वेपूपसर्गत्वं दृष्टमेव? एवं तह्र्रन्तग्र्रहणेन ज्ञाप्यते -उपसर्गग्रहणोपलक्षितमीत्त्वमनित्यमिति। तेन समापम्, परापम्, प्रापमिति सिद्धं भवति॥

Prakriyasarvasvam

कवमिति क्लीबैकवचनेनोक्तिः । उष्णे परे कोः कवादेशः का च वा स्यात् । कवोष्णम्, कोष्णम्, कदुष्णम् । अग्नावपीति कौमुदी । कवाग्निः, काग्निः, कदग्निः ॥

Sutra Prayogas

  • कोष्णेन (रघुवंशम्): कवं चोष्णे इति चकारात्कादेशः।

  • कपोष्णम् (भट्टिकाव्यम्): कवं चोष्णे इति कोः कवादेशः ।

  • कदुष्णं (भट्टिकाव्यम्): कवं चोदणे इति चकारात् कदादेशः ।

  • **** (भट्टिकाव्यम्): कवं चोष्णे इति चकारात् कोः कादेशः।

  • कोष्णम् (भट्टिकाव्यम्): कवं चोष्णे इति कोः कादेशः।