63109: पृषोदरादीनि यथोपदिष्टम्

Padacheda: पृषोदरादीनि | S | 1 | 3 |

यथोपदिष्टम् | S | 0 | 0 |

Sutrartha


Vasu English Summary

The elision, augment and mutation of letters to be seen in पृषोदर etc. though not found taught in the treatises of Grammar, are valid to that extent and in the mode, as taught by the usage of the sages.

Vasu English Translation

The elision, augment and mutation of letters to be seen in पृषोदर etc. though not found taught in the treatises of Grammar, are valid to that extent and in the mode, as taught by the usage of the sages. Karika

वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥

The word यथोपदिष्टम् = शिष्टैरुच्चारितानि ॥ Thus पृषदुदरो यस्य = पृषोदरम्, पृषद् उद्वानं यस्य = पृषोद्वानम् ॥ Here there is elision of द् ॥ So also वारिवाहकः = बलाहकः, here वारि is replaced by व, and ल replaces व of वाहक; जीवनस्य मूतः = जीमूतः, here वन has been elided; शवानां शयनं = श्मशानम्; here श्म replaces शव; and शान for शयन ॥ ऊर्ध्वं खमस्य = उलूखलम्; here उल replaces ऊध, and खल replaces खम ॥ पिशिताशाः = पिशाचः ॥ ब्रुवन्तोस्यां सीदन्ति = बृसी ॥ Here सद् takes the affix उट् in the locative, and ब्रुव is replaced by बृ ॥ मह्यां रौति = मयूरः ॥ Here मही is replaced by मयू, and the final रु is elided before the affix अच् ॥ And so on with अश्वत्थ, कपित्थ &c.

Vart:- तीर becomes optionally तार after a word denoting direction, as दक्षिणतीरम् or दक्षिणतारम्, उत्तरतीरम्, or उत्तरतारम् ॥

Vart:- Before the Patronymic इञ् affix, वाग्वाद becomes वाड्वाल as, वाग्वादस्यापथ्यं = वाड्वालिः ॥

Vart:- The final of पथ् is changed to उ before दतृ, दश and धा (meaning ‘location’): and the first letter of the second member is changed to ड or ढ ॥ Thus षड् दन्ता अस्य = षाडन्; so षोडश; षड्धा or षोढा कुरु ॥ The addition of उ is optional here. The putting of धासु in the plural number indicates that धा has here the meaning of “in many parts or ways” (नानाधिकरण). In fact it has the force of an affix here. The rule therefore does not apply to these:- षट् दधाति or धयति-षड्धा ॥

Vart:- The final of दुर् is changed to उ, before दाश, नाश, दभ and ध्ये and the first letters of these are changed to their corresponding cerebrals. Thus दुःखेन दाश्यते, नाश्यते, दभ्यते यः = दूडाशः, दूणाशः, दूडभः, In the last (दम्भ) there is elision of the nasal also. दुष्टं ध्यायति = दूढ्यः ॥ Here is added the affix क to the root ध्या (ध्यै) preceded by the upapada दुः, by (III.I.I36).

Vart:- उ is substituted for the final स्वर when the verb रुह follows in the Vedas: as एहित्वं जायेस्वो रोहावं (रोहाव is Imperative Ist. Person Dual).

Vart:- The final of पीवस् , पयस् &c. is elided in the Vedas. as पीवोप वसनानां, पयोपवसनानाम् ॥

Bhashya

पृषोदरादीनि यथोपदिष्टम् (2968) (निपातनाधिकरणम्) (आदिपदार्थबोधकभाष्यम्) पृषोदरादीनीत्युच्यते, कानि पृषोदरादीनि ? पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि ? येषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यन्ते ॥ (यथाशब्दार्थबोधकभाष्यम्) अथ यथा इति किमिदम् ? प्रकारवचने थाल् (5.3.23) ॥ (उपदिष्टार्थबोधकभाष्यम्) अथ किमिदमुपदिष्टानीति ? उच्चारितानि । कुत एतत्&##160;? दिशिरुच्चारणक्रियः । उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णाः इति । कैः पुनरुपदिष्टानि ? शिष्टैः ॥ (शिष्टलक्षणभाष्यम्) के पुनः शिष्टाः ? वैयाकरणाः । कुत एतत् ? शास्त्रपूर्विका हि शिष्टिः, वैयाकरणाश्च शास्त्रज्ञाः । यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकं च शास्त्रम्, तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हि निवासतश्चाचारतश्च । स चाचार आर्यावर्ते एव । (आर्यावर्तलक्षणभाष्यम्) कः पुनरार्यावर्तः ? प्रागादर्शात् - प्रत्यक् कालकवनात् - दक्षिणेन हिमवन्तम् - उत्तरेण पारियात्रम् । एतस्मिन् आर्यावर्ते आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किंचिदन्तरेण कस्याश्चिद्विद्यायाः पारं गतास्तत्र भवन्तः शिष्टाः ॥ आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशेष्यते ॥ अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ इति ॥ (शास्त्रप्रयोजनभाष्यम्) यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याय्या क्रियते ? शिष्टपरिज्ञानार्थाऽष्टाध्यायी । कथं पुनरष्टाध्याय्या शिष्टाः शक्या विज्ञातुम् ? अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानं ये वाऽस्यां विहिताः शब्दास्तान् प्रयुञ्ञ्जानम् । स पश्यति - नूनमस्य देवानुग्रहः स्वभावो वा, योऽयं न चाष्टाध्यायीमधीते, ये चास्यां विहिताः शब्दास्तांश्च प्रयुङ्क्ते । नूनमयमन्यानपि जानाति - इति । एवमेषा शिष्टज्ञानार्थाऽष्टाध्यायी - इति ॥ (6490 विकल्पवार्तिकम् ॥ 1 ॥) - दिक्शब्देभ्यस्तीरस्य तारभावो वा - दिक्शब्देभ्यस्तीरस्य तारभावो वा वक्तव्यः । दक्षिणतीरम्, दक्षिणतारम् । उत्तरतीरम्, उत्तरतारम् ॥ (6491 उपसंख्यानवार्तिकम् ॥ 2 ॥) - वाचो वादेर्डत्वं वल्भावश्चोत्तरपदस्येञ्ञि - वाचो वादेर्डत्वं वक्तव्यं वल्भावश्चोत्तरपदस्य इञ्ञि वक्तव्यः । वाग्वादस्यापत्यं - वाड्वलिः ॥ (6492 उपसंख्यानवार्तिकम् ॥ 3 ॥) - षष उत्वं दतृदशसूत्तरपदादेः ष्टुत्वं च - षष उत्वं वक्तव्यम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यम् । षोडन्, षोडश ॥ (6493 उपसंख्यानवार्तिकम् ॥ 4 ॥) - धासु वा - धासु वेति वक्तव्यम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यम् । षोढा, षड्ढा कुरु ॥ अथ किमर्थं बहुवचननिर्देशः क्रियते, न पुनर्धायामित्येवोच्येत ? नानाधिकरणवाची यो धाशब्दस्तस्य ग्रहणं यथा विज्ञायेत । इह मा भूत् - षट् दधातीति षड्धा - इति ॥ (उपसंख्यानभाष्यम्) दुरो दाशनाशदभध्येषूत्वं वक्तव्यम्, उत्तरपदादेश्च ष्टुत्वम् । दूडाशः, दूणाशः, दूडभः, दूढ्यः ॥ (6494 उपसंख्यानवार्तिकम् ॥ 5 ॥) - स्वरो रोहतौ छन्दस्युत्वम् - स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम् । एहि त्वं जाये स्वरो रोहाव - इति ॥ (6495 उपसंख्यानवार्तिकम् ॥ 6 ॥) - पीवोपवसनादीनां छन्दसि लोपः - पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः । पीवोपवसनानाम् । पयोपवसनानाम् । श्रियेदम् ॥

Kashika

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्णविकाराःशास्त्रेण न विहिता दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानियानि यथोपदिष्टानि शिष्टैरुच्चारितानि प्रयुक्तानि, तानि तथैवानुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषद् उद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहको बलाहकः। पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम्। जीवनस्य मूतो जीमूतः। वनशब्दस्य लोपः। शवानां शयनं श्मशानम्। शवशब्दस्य श्मादेशः। शयनशब्दस्यापि शानशब्द आदेशः। ऊर्ध्वं खमस्येति उलूखलम्। ऊर्ध्वखशब्दयोरुलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ। ब्रुवन्तोऽस्यां सीदन्तीति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौतीति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्येऽपि अश्वत्थकपित्थमहित्थप्रभृतयो यथायोगमनुगन्तव्याः॥ दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति॥ दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्॥ वाचो वादे डत्वं च लभावश्चोत्तरपदस्येञि प्रत्यये भवति॥ वाचं वदतीति वाग्वादः। तस्यापत्यं वाड्वालिः॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च भवति॥ षड् दन्ता अस्य षोडन्। षट् च दश च षोडश॥ धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्॥ षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत् — षड् दधाति धयति वा षड्धेति॥ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्॥ कृच्छे्रण दाश्यते नाश्यते दभ्यते च यः, स दू॒डाशः॑ (शौ०सं० १.१३.१)। दू॒णाशः॑ (ऋ० ७.३२.७)। दू॒डभ॑(ऋ० ४.९.८)। दम्भेः खल्यनुनासिकलोपो१ निपातनात्। दुष्टं ध्यायतीति दू॒ढ्यः॑ (ऋ० ८.७५.९)। दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे (३.१.१३६) इति कप्रत्ययः॥ स्वरो रोहतौ छन्दस्युत्वं वक्त व्यम्॥ जा॒य ए॒हि॒ स्वो रो॒हाव (श०ब्रा० ५.२.१.१०)॥ पीवोपवसनादीनां च लोपो वक्तव्यः॥ पीवो॑पवसनानाम् (मा०सं० २१.४३)। पयोपवसनानाम्।

वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ।

धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्त म्॥

Siddhanta Kaumudi

पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ।<!दिक्छब्देभ्यस्तीरस्य तारभावो वा !> (वार्तिकम्) ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् ।<!दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च !> (वार्तिकम्) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्च (SK2898) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥

Balamanorama

पृषोदरादीनि यथोपदिष्टम् - पृषोदरादीनि । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्याऽदर्शनाद्यथोपदिष्टपदस्य वैयथ्र्याच्च । किंतु प्रकारवाची । तदाह — पृषोदरप्रकाराणीति । प्रकारः-सादृश्यं, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्राऽगृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः । भावे क्तः । उपदिष्टमुपदेशः — उच्चारणं, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्यध्याहार्यम् । तथा च फलितमाह — शिष्टैर्यथोच्चारितानीति । शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति । भाष्यकौयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे ‘आद्गुणः’ इति भावः । पूर्वपदस्येति । ‘वारिवाहक’ शब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वादेशः । वाहकशब्द उत्तरपदं, तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमाद्धंस इति । हसधातोः पचाद्यचि अनुस्वारागमे ‘हंस’ इति रूपमित्यर्थः । हनधातोरचि सगागमेनश्चाऽपदान्तस्ये॑त्यनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति ।हिसि हिंसाया॑मित्यतः पचाद्यचि इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिहंयोरुणादौ व्युत्पत्तिरुक्ता तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढ आत्मा यस्येति बहुव्रीहावुत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः । वर्णनाशात्पृषोदरमिति । पृषत्-उजरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः । दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । इदमपि वार्तिकम् । दुरित्यस्य दाश, नाश, दभ, ध्य — इत्येतेषु परेषु इत्वम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थऋ दूडाश इति । दुर् — दाश इति स्थिते रेफस्य उत्त्वे सवर्णदीर्घः । दाशेर्दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुर्-नाश इति स्थिते रेफस्य उत्व सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति । दुर्-दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेर्दकारस्य ष्टुत्वेन डकारः । खल्त्रिभ्य इति । ‘दाशृ दाने’ ‘णश अदर्शने’ ण्यन्तः,दभ हिंसाया॑मिति त्रिभ्यो धातुभ्यः ‘ईषद्दुस्सुषु’ इति खल्प्रत्यय इत्यर्थः । ननु क्ङित्परकत्वाऽभावात्कथमिहअनिदिता॑मिति नलोप इत्यत आह — दम्भेर्नलोपो निपात्यत इति । दूढ इति । दुर्ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । ‘ध्यै चिन्तायाम्’ ‘आतश्चोपसर्गे’ इति कप्रत्यये आदेच उपदेशे॑ इति आत्त्वेआतो लोप इटि चे॑त्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सद्धातोरधिकरणेऽर्थे डटि ङित्त्वसामर्थ्यादस्यापि टेर्लोपे स इति रूपम् । ब्राउवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रावच्छब्दस्य ‘बृ’ इत्यादेशे बृसशब्दात्टिड्ढे॑ति ङीपि बृसीति रूपमिति भावः । ‘दिक्छब्देभ्य’ इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः । आकृतिगणो ।ञयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमना इत्यादिसङ्ग्रहः ।

Tattvabodhini

पृषोदरादीनि यथोपदिष्टम् - पृषोदर । प्रकाराणीति । आदिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः । शिष्टैरिति । अध्याहारलभ्यमिदम् ।यथोपदिष्ट॑मित्यत्र यथार्थेऽव्ययीभावः । उपदिशिश्चोच्चारणक्रियः ।यानि यानि शिष्टैरुप दिष्टानि॑इत्यर्थः । एवं स्थिते फलितमाह — यथोच्चारितानि तथैवेति । समासयदविषयकमिदम्, उत्तरपदाधिकारात् । निरुक्तादिशास्त्रसिद्धानामसमासपदानाम्उणादयो बहुल॑मित्येव सिद्धेश्च । यद्यपि समासविषयकमेवेति नियमो न युज्यते, हंससिंहशब्दयोरपि प्राचां कारिकायामुदाहृतत्वात्, तथापि तत्करिकायां यथाशब्दाध्याहरेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः । वर्णागमादिति । हन्तेः पचाद्यचि सगागमः । विपर्ययादिति । हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययः ।दिक्शब्देभ्यस्तीरस्य तारभावो वा । दिक्शब्देभ्य इति । वार्तिकमिदम् ।दुरो दाशनाशे॑त्यप्येवम् ।दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च । खल्त्रिभ्य इति । दाशनाशदभेति त्रयोऽपिईषद्दुःसुषु॑इति खल्प्रत्ययान्ता इत्यर्थः । बृसीति ।मुनीनामासनं बृसो॑ आकृतिगणोऽयमिति । तेन॒लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि । समो वा हितततयोर्मासस्य पचि युड्घञोः ।॑ इत्यपि सङ्गृहीतम् । कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान्लुम्पेत् । अवश्यगन्तव्यः । अवश्यसेव्यः । तथा तुमः काममनसोः परतोऽन्तं लम्पेत् । गन्तुकामः । गन्तुमनाः । समो हितततयोरन्तं वा लुम्पेत् । हितः संहितः । सततः संततः । युट् घञ्च, एतत्परो यः पच्धातुस्तस्मिन्परे मांसस्याऽन्तं लुम्पेत् । मांस्पचनम् । मांस्पाकः । इह संयोगान्तलोपोऽपि शिष्टोच्चारणान्नेतचि बोध्यम् ।

Padamanjari

निरुक्तादिशास्त्रसिद्धानामसमासपदानामुणादयो बहुलम् इति सद्धिरुक्ता, अनेन तु समासपदानां जीमूतवलाहकादीनां सिद्धिरुच्यते । प्रकारवचनोऽयमादिशब्द इति दर्शयति पृषोदरप्रकाराणीति । व्यवस्थार्थे तावदिशब्दे यथोपदिष्टमित्यनर्थकमिति भावः । प्रकारमाह - येष्विति । यथोयदिष्टमिति । वीप्सायामयमव्ययीभाव इत्याह - यानियानीति । दिशिरुच्चारणक्रियः, उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णाः इति, कैः पुनरुपदिष्टानि शिष्टेः । शिष्टाः पुनरकामात्मानो यथार्थवेदिनो यथाविहितभाषिणश्च किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारगाः, यानधिकृत्येदमुच्यते । आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्पण चक्षुषा । ये भावान्वचनं तेषां नानुमानेन बाध्यते ॥ इति । यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याथ्या क्रियते शिष्टपरिज्ञानार्थाष्टाध्यायी । कथमष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानम्, ये चानुविहितास्तान् प्रयुञ्जानम् । स पश्यति - नूनमस्य एदैवानुग्रहः स्वभावो वा यदसौ नाष्टाध्यायीमधीते, अथ चात्र तु विहिताः शब्दास्तान्प्रयुङ्क्ते, नूनमन्यानपि अयं जानाति । सैषा शिष्टपरिज्ञानार्थाष्टाध्यायी । जीवनस्य जलस्य मूतो भाचनं जीमूतः, यथा कुसूलो धान्यानाम्, खम् - बिलम् । पिशितम् - मांसम् । बृसी - तृणमयमासनम् । एवमन्येऽपीत्यादि । कप्यश्वमहीशब्देपूपपदेषु सुपि स्थः, सकारस्य तकारः, महीशब्दस्य ह्रस्वः । दक्षिणतारमिति । विशेषणसमासः । वाग्वाद इति । कर्मण्यण् । षोडन्निति । वयसि दन्तस्य दतृ, उगित्वान्नुम् । घासु नेति । उत्वस्यायं विकल्पः । उत्वपक्षे तु ष्टुअत्वं नित्यमेव भवति, अत्रोतरपदशब्देन धाप्रत्ययोऽभिधीयते । पद्यते गम्यतेऽनेनार्थ इति पदम्, उतरं च तत्पदं च उतरपदम् । षड्धेति । न पदान्ताट्टोरनाम् इति ष्टुअत्वप्रतिषेधः । नानाधिकरणवाचिन इति । अर्थगतं बहुत्वं शब्दे समारोप्य धास्विति बहुवचननिर्देशः, तेन अधिकरणविचाले चेति वहितस्य धाप्रत्ययस्येदं ग्रहणम् । षड्धेति । आतोऽनुपसर्गे कः स्त्रियां टाप्प्रत्ययः । लाक्षणिकत्वादस्याग्रहणमिति चेत् एवमपि क्वबन्ते प्रसङ्गः । नाश्यत इति । णश अदर्शने ण्यन्तः । दभ्यत इति । दम्भु दम्भे । स्वो रोहावेति । लोडुतमद्विवचने । वर्णागम इत्यादि । कौ जीर्यत इति वृञ्जर इत्यत्र नकारस्य वर्णस्यागमः । हिनस्तीति सिंह इत्याद्यन्तयोर्वर्णयोविपर्ययो व्यत्यासः । षोड इत्यत्र षकारस्योकाररुपापतिः वर्णाविकारः । पृषोदर इत्यादौ तकारादेर्वर्णस्य विनाशः । यस्य धातोर्थोऽर्थः प्रसिद्धः, तस्मादर्थान्तरेण योगस्तदर्थातिशयेन योग इति । एतत्पञ्चविधं निरुक्तम् - निर्वचनप्रकारः, शब्दानां तदन्तेन सूत्रेणोच्यत इति श्लोकार्थः ॥

Nyaas

अन्याशीरन्यदाशीः इत्यादि। विग्रहविशेषेण सर्वत्र विशेषणसमासं दर्शयति अन्येनास्थितोऽन्यदस्थितः इति। कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। दृगागमोऽविशेषेण इत्यादि। कारकशब्दे छप्रत्यये परतोऽविशेषेण सामान्येन दुगागमः कर्तव्यः। अन्येष्वाशीरादिषु सप्तसूत्तरपदेषु षष्ठीतृतीयास्थयोर्नेष्टो नाभिमतः। किं पुनरस्यार्थस्य लिङ्गं यतोऽयमवसीयते? इत्यत आह - अस्य च इत्यादि। अषष्ठीतृतीयास्थस्येत्येवं सिद्धे द्विर्नञुपादानमस्य प्रतिषेधस्यानित्यत्वे लिङ्गम्। तेन क्वचित्? षष्ठीतृतीयास्थस्यापि समासे दुगागमो भवत्येव॥

Vartika

दिक्शब्देभ्यस्तीरस्य तारभावो वा ।

Sutra Prayogas

  • मनीषिणाम् (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति साधुः।

  • दिवौकसाम् (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति पृषोदरादित्वात्साधुः।

  • बिडौजसः (रघुवंशम्): पृषोदरादीनि यथोपादिष्टम् इति साधुः।

  • गरुत्मदाशीविषभीमदर्शनैः (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति साधुत्वम्।

  • प्रतियातुकामं (रघुवंशम्): तुं काममनसोरपि इति मकारलोपः।

  • बलाहकस्य (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति साधुत्वम्।

  • मनीषिणः (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति पृषोदरादित्वात्साधुः।

  • मयूरं (रघुवंशम्): पृषोदरादीनि यथोदिष्टम् इति साधुत्वम्।

  • दिवौकसः (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति साधुत्वम्।

  • त्रेता (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति एत्वम्।

  • जीमूत (रघुवंशम्): पृषोदरादीनि यथोपदिष्टम् इति पृषोदरादित्वात्साधुः।

  • बलाहकच्छेदविभक्तरागाम् (कुमारसम्भवम्): पृषोदरादीनि यथोपदिष्टम् (पृषोदरादित्वात्) इति साधुः।

  • पुराणस्य (कुमारसम्भवम्): पृषोदरादीनि यथोदिष्टम् इति साधुः ।

  • दिवौकसः (कुमारसम्भवम्): पृषोदरादीनि यथोपदिष्टम् इति साधुः।

  • त्रिदिवस्य (कुमारसम्भवम्): पृषोदरादीनि यथोपदिष्टम् इति दिवशब्दादकारागमः।

  • प्रष्टुमनाः (कुमारसम्भवम्): तुं काममनसोरपि (वार्तिकम्) इति मकारलोपः।

  • दुरोदरच्छद्मजितां (किरातार्जुनीयम्): पृषोदरादीनि यथोपदिष्टम् इति साधुत्वम्।

  • वीतबलाहकायाः (किरातार्जुनीयम्): पृषोदरादीनि यथोदिष्टम् इति साधुत्वम्।

  • क्षत्त्रियः (किरातार्जुनीयम्): पृषोदरादीनि यथोपदिष्टम् इति पूर्वपदस्यान्त्यलोपः।

  • दिवौकसाम् (किरातार्जुनीयम्): पृषोदरादीनि यथोपदिष्टम् इति पृषोदरादित्वात्साधुः।

  • क्षेप्तुकामम् (किरातार्जुनीयम्): तुं काममनसोरपि इति मकारलोपः।

  • मनीषिणः (शिशुपालवधम्): पृषोदरादीनि यथोपदिष्टम् इति साधुत्वम्।

  • अभिपतितुमना (शिशुपालवधम्): तुं काममनसोरपि इति मकारलोपः।

  • मन्मथस्य (शिशुपालवधम्): पृषोदरादीनि यथोपदिष्टम् इति साधुः।

  • दिवौकसां (शिशुपालवधम्): पृषोदरादीनि यथोदिष्टम् इति पृषोदरादित्वात्साधुः।