63108: पथि च च्छन्दसि ===================== **Padacheda:** पथि | S | 7 | 1 | च | S | 0 | 0 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- This substitution of का and कव for कु takes place in the छन्दस् (Vedas) before पथ। Vasu English Translation ------------------------ This substitution of का and कव for कु takes place in the छन्दस् (Vedas) before पथ। Thus कवपथः, कापथः and कुपथः ॥ Kashika ------- पथिशब्द उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा। कवपथः, कापथः, कुपथः॥ Siddhanta Kaumudi ----------------- पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥ Balamanorama ------------ **पथि च च्छन्दसि** - इत्यकारलोपे प्र च् अस् इति स्थिते — चौ । अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम् । 'ढ्रलोपे' इत्यतःपूर्वस्य दीर्घोऽणः॑ इत्यनुवर्तते । तदाह — लुप्तेति । प्राचेति । यद्यपि 'अचः' इत्यल्लोपस्य 'चौ' इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण 'प्राच' इति सिध्यति, तथापि 'प्रतीचः' इत्याद्यर्थं सूत्रम् । प्राग्भ्यामिति । प्राच्-भ्याम् इति स्थिते 'चोः कुः' इति कुत्वं,क्विन्प्रत्ययस्य कुः॑ इति कुत्वस्याऽसिद्धत्वात् । इत्यादीति । प्राग्भिः । प्राचे । प्राचः २ । प्राचोः २ । प्राक्षु । प्रत्यङ्ङिति । प्रतिपूर्वादञ्चेः क्विन्, यण्, 'अनिदिताम्' इति नलोपः, सुबुत्पत्तिः ।उगिदचा॑मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकार इति भावः । प्रत्यञ्चाविति । प्रत्यच्-औ इति स्थितेउगिदचा॑मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः । एवं प्रत्यञ्चः । प्रत्यञ्चम्, प्रत्यञ्चौ ।ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृतेअनिदिता॑मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात्उगिदचा॑मिति नुमभावे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्चेति स्यादित्यत आह — अचेति लोपस्येत्यादि । 'अचः' इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति । ततश्च प्रति अच् अस् इति स्थिते 'अचः' इत्यकारलोपे सति 'चौ' इति इकारस्य दीर्घे 'प्रतीच' इति रूपां निर्बाधम् । एतदर्थमेव 'अचः' इति 'चौ' इति चारब्धम् ।प्राचः पश्ये॑त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः । भाष्ये तु 'चौ' इत्यारम्भसामर्थ्यादेवात्र यण् नेति समाहितम् । न चप्राचः पश्ये॑त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात् ।वार्णादाङ्गं बलीयः॑ इति परिभाषया 'अचः' इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः । अद्स् अञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते 'अनिदिताम्' इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः । Tattvabodhini ------------- **पथि च च्छन्दसि** - चौ ।चजोः॑इति निर्देशाच्चवर्गग्रहणं न भवतीत्याह -लुप्ताकारनकारेञ्चताविति । अत्राऽकारलोपेन नकारलोपस्याक्षिप्तत्वात्तत्कथनं व्यर्थमेव, किंतु लुप्ताऽकारेऽञ्चातावित्येव सुवचमित्याहुः ।ढ्रलोपे॑इति सूत्रादणो दीर्घ इत्यस्य चानुवर्तमादाह — अणो दीर्घः स्यादिति । प्राचः । प्राचेति ।प्रतीचः॑इत्याद्यर्थमवश्यंस्वीकार्येऽतोलोपे कृतेऽनेन दीर्घो विधीयत इति भावः । प्राग्भ्यामिति ।चोः कुः॑इति कुत्वं, न तुक्विन्प्रत्ययस्ये॑त्यनेन, तस्याऽसिद्धात्वात् । Nyaas ----- `अनूपः` इति। अनुगता आपोऽस्मिन्निति विग्रहः, पूर्ववत्? समासान्तः, सवर्णदीर्घः। अथ दीर्घोच्चारणं किमर्थम्, यावता ह्रस्वोऽपि विहितेऽकः सवर्णे दीर्घत्वेनानूप इति सिध्यत्येव? अत आह -`दीर्घोच्चारणम्` इत्यादि। असति दीर्घोच्चारणे संहितायामेव दीर्घत्वं स्यात्, नावग्रहे। तस्मादवग्रहेऽपि यथा स्यादित्येवमर्थ दीर्घोच्चारणम्॥ Prakriyasarvasvam ----------------- कोः पथि परे कवादेशः कादेशश्च वा स्यात् । कवपथः कापथः कुपथः । छन्दसि कवादेशोऽन्यत्रापीति हरदत्तः । न कवा*दिभ्यः । केवलस्य कोः कवादेशो दृष्ट इति स एवाह । कवा तिर्यङ्कुपतिष्ठते । ईषत्तिर्यङित्यर्थः—। पृषोदरादौ- दाशनाशदभध्येपुदुरऊत्वंपरस्य दुः दुःखेन देयो दूळाशो दूणाशो दूळभश्च खल् । व्याजहिंसार्थकाद् दम्भेर्नलोपोऽत्र निपातनात् दुष्टं ध्यायति दूढ्योऽसौ नैते छन्दोधिकारगाः ॥ ८७८ ॥ स्वः शब्दस्य र उत्वं स्यान्निगमे रोहतौ परे दृशि चेत्युत्ववदिदं सुवो रोहावहीत्यतः । सुवा रोहावहीति स्यात् प्रातरथवदन्यथा पीवोपवसनादीनां लोपोऽत्र छन्दसीष्यते ॥ पीवसेर्हि सलोपोऽयमेवं सिद्धं रजेषितम् ॥ ८७९ ॥