63106: विभाषा पुरुषे

Padacheda: विभाषा | S | 1 | 1 |

पुरुषे | S | 7 | 1 |

Sutrartha


Vasu English Summary

का is optionally the substitute of कु when the word पुरुष follows.

Vasu English Translation

का is optionally the substitute of कु when the word पुरुष follows. Thus कापुरुषः or कुपुरुषः ॥ This is an aprapta-vibhasha. In the sense of ‘a little ईषद्’, the substitution is compulsory; as ईषत् पुरुषः = का पुरुषः ॥

Kashika

पुरुषशब्द उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत्पुरुषः कापुरुषः॥

Siddhanta Kaumudi

कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥

Balamanorama

विभाषा पुरुषे - विभाषा पुरुषे । ‘कोः का इत्यादेश’ इति शेषः । अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति ‘ईषदर्थे’ इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह — ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् ।

Tattvabodhini

विभाषा पुरुषे - अप्राप्तविभाषेति ।ईषदर्थे॑इत्यस्याननुवृत्तेरिति भावः ।

Padamanjari

अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृतत्वात् । नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ॥

Nyaas

सधमादः इति। सह मादेन वर्तत इति तेन सह (2.2.28) इत्यादिना बहुव्रीहिः, मादशब्दो घञन्तः। ननु च मदोऽनुपसर्गे (3.3.67) इत्यपा भवितव्यम्? नैष दोषः; तत्र हि स्वनहसोर्वा (3.3.62) इत्यतो वाग्रहणमनुवर्तते, सां च व्यवस्थितविभाषा। तेन छन्दसि घञेव भविष्यति। अथ एव निर्देशाद्वा। सधस्थः [सधस्थाः - काशिका मुद्रितः पाठः, सधस्था - (काशिका) सं।पं। मुद्रितपाठः] इति। सह तिष्ठीति सुपि स्थः (3.2.4) इति कः॥

Prakriyasarvasvam

कुत्सितः पुरुषः कापुरुषः, कुपुरुषः ।