63107: कवं चोष्णे ================= **Padacheda:** कवम् | S | 1 | 1 | च | S | 0 | 0 | उष्णे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- का and कवङ् are optionally the substitutes of कु when उष्ण follows. Vasu English Translation ------------------------ का and कवङ् are optionally the substitutes of कु when उष्ण follows. As कवोष्णम्, कोष्णम् or कदुष्णम् ॥ Kashika ------- उष्णशब्द उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्॥ Siddhanta Kaumudi ----------------- उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥ Balamanorama ------------ **कवं चोष्णे** - कवं चोष्णे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाऽभावे कदादेशः । तथा च रूपत्रयम् । तदाह — कोष्णं कवोष्णं कदुष्णमिति । Padamanjari ----------- च्छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषतिर्थङ्त्यिर्थः ॥ Nyaas ----- `द्वीपम्` इति। द्विर्गता आपोऽस्मिन्नित्यस्वपदविग्रहो बहुव्रीहिः। यथा -शोभनं मुखमस्याः सुमुखीति। `ऋक्पूरब्धूः` (5.4.74) इत्यादिनाऽकारः समासान्तः। अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम्। सङ्गता विगता निर्गता आपोऽस्मिन्निति सपीपम्, वीपम्, नीपम्। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। उत्तरत्रापि वक्तवयशब्दस्यायमेवार्थः। व्याख्यानं त्विहापि पूर्ववत्? `विभाषोदरे` इत्यतो विभाषाग्रहणानुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। अन्यदपि चत्र व्याख्यानं करिष्यामः। `अप्शब्दं प्रति` इत्यादि। इह यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति अप्शब्दसय तु क्रियात्वं न सम्भवति; द्रव्यवचित्वात्। तस्मात्? तं प्रति नास्ति कस्यचिदुपसर्गसंज्ञेति। क्रियते चेदमुपसर्गग्रहणम्। तत्सामर्थ्याद्यत्र प्रादेरन्यत्रोपसरगतवं दृष्टं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते। यद्येवम्, अन्तशब्दस्य ग्रहणं न कर्तव्यम्, यथैव हि प्रादय उपसर्गग्रहणेन लक्ष्यन्ते तथान्तःशब्दोऽपि, तस्याङ्कविधिणत्वेपूपसर्गत्वं दृष्टमेव? एवं तह्र्रन्तग्र्रहणेन ज्ञाप्यते -उपसर्गग्रहणोपलक्षितमीत्त्वमनित्यमिति। तेन समापम्, परापम्, प्रापमिति सिद्धं भवति॥ Prakriyasarvasvam ----------------- कवमिति क्लीबैकवचनेनोक्तिः । उष्णे परे कोः कवादेशः का च वा स्यात् । कवोष्णम्, कोष्णम्, कदुष्णम् । अग्नावपीति कौमुदी । कवाग्निः, काग्निः, कदग्निः ॥ Sutra Prayogas -------------- * **कोष्णेन** (रघुवंशम्): `कवं चोष्णे` इति चकारात्कादेशः। * **कपोष्णम्** (भट्टिकाव्यम्): `कवं चोष्णे` इति कोः कवादेशः । * **कदुष्णं** (भट्टिकाव्यम्): `कवं चोदणे` इति चकारात् कदादेशः । * **** (भट्टिकाव्यम्): `कवं चोष्णे` इति चकारात् कोः कादेशः। * **कोष्णम्** (भट्टिकाव्यम्): `कवं चोष्णे` इति कोः कादेशः।