63106: विभाषा पुरुषे ==================== **Padacheda:** विभाषा | S | 1 | 1 | पुरुषे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- का is optionally the substitute of कु when the word पुरुष follows. Vasu English Translation ------------------------ का is optionally the substitute of कु when the word पुरुष follows. Thus कापुरुषः or कुपुरुषः ॥ This is an *aprapta*-*vibhasha*. In the sense of 'a little ईषद्', the substitution is compulsory; as ईषत् पुरुषः = का पुरुषः ॥ Kashika ------- पुरुषशब्द उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत्पुरुषः कापुरुषः॥ Siddhanta Kaumudi ----------------- कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥ Balamanorama ------------ **विभाषा पुरुषे** - विभाषा पुरुषे । 'कोः का इत्यादेश' इति शेषः । अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति 'ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह — ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् । Tattvabodhini ------------- **विभाषा पुरुषे** - अप्राप्तविभाषेति ।ईषदर्थे॑इत्यस्याननुवृत्तेरिति भावः । Padamanjari ----------- अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृतत्वात् । नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ॥ Nyaas ----- `सधमादः` इति। सह मादेन वर्तत इति `तेन सह` (2.2.28) इत्यादिना बहुव्रीहिः, मादशब्दो घञन्तः। ननु च **मदोऽनुपसर्गे** (3.3.67) इत्यपा भवितव्यम्? नैष दोषः; तत्र हि **स्वनहसोर्वा** (3.3.62) इत्यतो वाग्रहणमनुवर्तते, सां च व्यवस्थितविभाषा। तेन छन्दसि घञेव भविष्यति। अथ एव निर्देशाद्वा। `सधस्थः` [`सधस्थाः` - काशिका मुद्रितः पाठः, `सधस्था` - (काशिका) सं।पं। मुद्रितपाठः] इति। सह तिष्ठीति **सुपि स्थः** (3.2.4) इति कः॥ Prakriyasarvasvam ----------------- कुत्सितः पुरुषः कापुरुषः, कुपुरुषः ।