63105: ईषदर्थे

Padacheda: ईषत्-अर्थे | S | 7 | 1 |

Sutrartha


Vasu English Summary

का is the substitute of कु when the meaning is ‘a small’.

Vasu English Translation

का is the substitute of कु when the meaning is ‘a small’. As कामधुरम्, कालवणम्, काम्लम् ॥ Though the second member may begin with a vowel, yet this substitution takes place, in spite of (6.3.101) : as कोष्णम् ॥

Kashika

ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्॥

Siddhanta Kaumudi

ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥

Balamanorama

ईषदर्थे - ईषदर्थे । ईषदर्थे विद्यमानस्य कोः ‘का’ इत्यादेशः स्यादित्यर्थः । काजलमिति । ईषत् — जलमिति विग्रहेकुगतीति समासः । नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम् । कुत्सित अम्लः काम्ल इत्यत्रकोः कत्तत्पुरुषेऽची॑ति कदादेशमाशङ्ख्याह — अजादावपीति ।

Padamanjari

कामधुरमिति । कुगतीति समासः । कुः पापार्थः इत्येततु प्रायिकम् । काम्लमिति । ननु चात्र कोः कतत्पुरुषेऽचि इति कद्भावः प्राप्नोति, अस्य त्वनजादिरवकाशः तत्राह - अजादावपीति ॥

Nyaas

सध्रीचा इति। पूर्ववदकारलोपः, दीर्घत्वं च॥

Prakriyasarvasvam

ईषदर्थे कोः का स्यात् । ईषज्जलं काजलम् । गतिस्तूच्यते । ‘कारिकाया गतित्वं वाच्यमि’ति गतित्वात्समासः । ‘समासेऽनञ् पूर्वे—’ (७-१-३७) इति ल्यप् । कारिकाकृत्य । क्रियां कृत्वेत्यर्थः । ‘ऊर्यादिच्चिडाचश्च’ (१-४-६१) इति गतित्वम् । ऊरीकृत्य । ऊरीकृतम् । च्वौ—शुक्लीकृत्य । शुक्लीभवन् । शुक्लीसन् डाचि-पटपटाकृत्य । एतस्सूत्रोक्तं गतित्वं कृभ्वस्तियोग एवेष्टम् । ‘ऊर्युंररी चाङ्गीकारे’ ! (स० १-१-१३३) एतेऽङ्गीकारेऽर्थे गतिसंज्ञा । विस्तारे चेति स्वामी । ऊरीकृत्य । उररीकृत्य । उररीकृत्य । उरी चेति मुरारिपञ्चिका । उरीकृत्य । ‘पांपी धूसी ताल्याताली वेताली च विस्तारे’ (स० १-१-१३४) । पांपीभूय । पांपीकृत्य । तालीकृत्येत्यादि । विस्तार्य विस्तीर्य चेति चार्थः । ‘पार्दाली सेवाली केवाली केवास्यालोष्टी सकला श्रंसकला ध्वंसकला अंशकला मस्मसा मसमसा च हिंसायाम्’ (स० १-१-१३५) । ईदन्ताः पञ्च । आदन्ताः षट् । दुष्टान् पार्दालीकृत्येत्यादि । ‘गुलुगुधा पीडायाम्’ (स० १-१-१३६) । रिपून् गुलुगुधाकृत्य । ‘आक्ली विक्लीं फली फलू विकारे’ (स० १-१-१३७) । एते चत्वारः । परानाक्लीकृत्य । स्वयमाक्लीभूयेत्यादि । ‘सजूस्सहार्थे’ । (स० १-१- १३८) । तं सजूः कृत्य । तेन सजूर्भूय । ‘वषड् वौषट् श्रौषट् स्वाहा स्वधा संप्रदाने ।’ (स० १-१-१३९) पञ्चापि प्रदानविशेषार्थाः । हविर्वषट्कृत्येत्यादि । ‘प्रादुराविर्षौ प्राकाश्ये’ (स० १-१-१४०) । प्रादुष्कृत्य प्रादुर्भूय । आविर्भूयेत्यादि । ऊर्यादीनां पृथगप्रयोगादाविरिति पृथक्प्रयोगो भ्रान्तिरिति माधवः । प्रादुराविर्षो- र्गतिव्यतिरिक्त्योः स्वरादौ पाठात् स्यादिति स्वामिमतम् ।

Sutra Prayogas

  • कावादे (किरातार्जुनीयम्): ईषदर्थे इति कुशब्दस्य कादेशः।