63084: समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु

Padacheda: समानस्य | S | 6 | 1 |

छन्दसि | S | 7 | 1 |

अमूर्ध-प्रभृति-उत्-अर्केषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

स is substituted for समान् in the छन्दस् (Vedas), but not before 1. मूर्धन् 2. प्रभृति and 3. उदर्क।

Vasu English Translation

स is substituted for समान् in the छन्दस् (Vedas), but not before 1. मूर्धन् 2. प्रभृति and 3. उदर्क। Thus अनुभ्राता सगर्भ्यः, अनुसखा सयूथ्यः, योनः सनूत्यः (See (4.4.14)). समानो गर्भः = सगर्भः, तत्र भवः = सगर्भ्यः formed by यन् affix (4.4.114). But समानमूर्द्धा, समानप्रभृतयः, समानोदर्काः ॥ This substitution takes place in secular literature also, as सपक्षः, साधर्म्यम्, सजातीयः &c.

Kashika

स इति वर्तते। समानस्य स इत्ययमादेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्जयित्वा। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं० ४.२०)। अनु॒ सखा॒ सयू॑थ्यः (मा०सं० ४.२०)। यो नः॒ सनु॑त्यः (ऋ० २.३०.९)। समानो गर्भः सगर्भः, तत्र भवः सगर्भ्यः। सगर्भसयूथसनुताद् यन् (४.४.११४) इति यन् प्रत्ययः। अमूर्धप्रभृत्युदर्केष्विति किम्? समानमूर्धा। समानप्रभृतयः। समानोदर्काः। समानस्येति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते। तेन सपक्षः, साधर्म्यम्, सजातीय इत्येवमादयः सिद्धा भवन्ति॥

Siddhanta Kaumudi

समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे सगर्भसयूथसनुताद्यत् (SK3401) अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥

Balamanorama

समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु - समानस्य । नतु मूर्धादिष्विति । मूर्धन्, प्रभृति, उदर्क — एषु परेषु नेत्यर्थः । सगभ्र्य इति । समाने गर्भे भव इत्यर्थः । सयूथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समाने नुते भव इत्यर्थः । सर्वत्र ‘तद्धितार्थ’ इति समासे समानस्य सभावः । समानमूर्धेति । समानो मूर्धा यस्येति विग्रहः । समानप्रभऋतय इति । समानः प्रभृतिराद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समान उदर्को येषामिति विग्रहः । तैत्तिरीयेसजूरृतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुदैः, सजूरादित्यैः, सजूर्विऔर्देवैः, सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैआआनरायाइआनाध्वर्यु सादयतामिह त्वा॑ इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजूरृतुभिः, सजूर्विधाभिरित्ययमाद्यवयवः, सजूर्देवैर्वयोनाधैरित्यन्तावयवश्च समानः, सजूर्वसुभिरित्यादिपञ्चानामेकैकस्य क्रमेणैकैकस्मिन्मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-योगो विभज्यत इति । तथा चसमानस्य सः स्या॑दिति वाक्यान्तरं संपद्यते । तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः ।सपक्ष इति । समानः पक्षो यस्येति विग्रहः । साधम्र्यमिति । समानो धर्मो यस्य स सधर्मा । समानस्य सभावः । तस्य भावः साधम्र्यम् । ब्राआहृणादित्वात्ष्यञ् । सजातीयमिति । समाना जातिर्यस्येति विग्रहः । समानस्य सभावः ।जात्यान्ताच्छ बन्धुनी॑ति च्छः । इत्यादीति । ‘सग्राम’ इत्यादिसङ्ग्रहः । योगविभागस्य भाष्याऽदृष्टत्वाद्युक्त्यन्तरमाह — अथवेति । तेनेति । तेन=सदृशब्देन बहुव्रीहिरित्यन्वयः । तथा च वोपसर्जनस्ये॑ति सहस्य सभाव इति भावः । ननु तर्हिं समानः पक्षो यस्येति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह — अस्वपद इति । वृत्तावेव सहशब्दः सदृशवचन इति भावः ।

Tattvabodhini

समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु - योगो विभज्यत इति । एतदर्थमेव च्छान्दसमपिसमानस्यच्छन्दसी॑ति सूत्रमिहोपन्यस्तमिति भावः । बहुब्राईहिरिति । तेनवोपसर्जनस्ये॑ति सहस्य सभावः प्राप्नोतीति भावः ।

Padamanjari

समानस्येति योगविभाग इति । अपर आह - सहशब्दः सदृशवचनोऽस्ति, यथा - सदृशः सख्या ससखीति, तस्यायमस्वपदिविग्रहो बहुव्रीहिः - समानो धर्मोऽस्य, समानः पक्षोऽस्य, समाना जातिरस्य वोपसर्जनस्य इति सभावः । समानशब्दस्य तु समानजातीय इत्यादि भवति । योगविभागे तु तस्य नित्यत्वान्नैतत्सिध्यति । अत । व भाप्यवार्तिकयोर्योगविभागस्य नोपन्यास इति ॥