63083: प्रकृत्याऽऽशिष्यगोवत्सहलेषु

Padacheda: प्रकृत्या | S | 3 | 1 |

आशिषि | S | 7 | 1 |

अ-गो-वत्स-हलेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The word सह retains its original form when the sentence denotes benediction, except when it is गो , वत्स or हल।

Vasu English Translation

The word सह retains its original form when the sentence denotes benediction, except when it is गो , वत्स or हल। Thus स्वस्ति देवदत्ताय सहपुत्राय, सहच्छात्राय, सहामात्याय ॥ But optionally here, as स्वस्ति भवते सहगवे or सगवे, सहवत्साय or सवत्साय, सहहलाय, or सहलाय ॥ The phrase अगोवत्सहलेषु is no part of the original sutra, but has been added by the Kasika from a Vartika.

Bhashya

प्रकृत्याशिषि (2942) (6483 पर्युदासोपसंख्यानवार्तिकम् ॥ 1 ॥) - प्रकृत्याशिष्यगवादिषु - प्रकृत्याशिष्यगवादिष्विति वक्तव्यम् । इह मा भूत् - स्वस्ति भवते सगवे सवत्साय सहलायेति ॥

Kashika

प्रकृत्या सहशब्दो भवत्याशिषि विषयेऽगोवत्सहलेषु। स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेष्विति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। वोपसर्जनस्य (६.३.८२) इति पक्षे भवत्येव सभावः॥

Siddhanta Kaumudi

सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ।<!अगोवत्सहलेष्विति वाच्यम् !> (वार्तिकम्) ॥ सगवे । सवत्साय । सहलाय ॥

Balamanorama

प्रकृत्याऽऽशिष्यगोवत्सहलेषु - प्रकृत्याशिषि ।सहस्य सः संज्ञाया॑मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति ।भूया॑दिति शेषः । सहपुत्रायेति ।तेन सहे॑ति समासे कृते, आसीर्योगान्न सभावः । एवं-सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ।राज्ञे स्वस्ती॑ती शेषः ।

Padamanjari

प्रकृत्याशिषि इत्येतावत्सूत्रम्, परिशिष्ट्ंअ भाष्यवार्तिकदर्शनात् सूत्ररुपेण पठितम् । न इति वक्तव्ये प्रकृतिवचनं वैचित्र्यार्थम् ॥

Prakriyasarvasvam

आशिषि द्योत्यायां सहशब्दः प्रकृत्या स्यात् । स्वस्ति ते सहपुत्राय सहामात्याय । गवादौ परे तु ‘वोपसर्जनस्य’ (६-३-८२) इति विकल्प एव । सगवे सहगवे, इत्यादि । ‘समानस्य च्छन्दसि’ (६-३-८४) इत्यत्र समानस्येति च्छेदाल्लोकेऽपि क्वचित् सभावः । समानमक्षः सपक्षः । समानधर्मा सधर्मा । एवं सपिण्डसजातिसगन्धसपत्न्यादि यथादृष्टमेव ।।

Vartika

अगोवत्सहलेष्विति वाच्यम् ।