63085: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु

Padacheda: ज्योतिः-जनपद-रात्रि-नाभि-नाम-गोत्र-रूप-स्थान-वर्ण-वयस्-वचन-बन्धुषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

This substitution of स for समान् takes place before 1. ज्योतिस् 2. जनपद 3. रात्रि 4. गोत्र 5. रूप 6. स्थान 7. वर्ण 8. वयस् 9. वचन and 10. बन्धु in the common language also.

Vasu English Translation

This substitution of स for समान् takes place before 1. ज्योतिस् 2. जनपद 3. रात्रि 4. गोत्र 5. रूप 6. स्थान 7. वर्ण 8. वयस् 9. वचन and 10. बन्धु in the common language also. Thus सज्योतिः, सजनपदः, सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः ॥

Kashika

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः। सवर्णः। सवयाः। सवचनः। सबन्धुः॥

Siddhanta Kaumudi

एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥

Tattvabodhini

ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु - सज्योतिरिति । समानं ज्योतिरस्येति बहुव्रीहिः । यस्मिन्ज्योतिषि आदित्ये नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौचं सज्योतिरित्युच्यते । इहसमानमध्यमध्यमवीराश्चे॑ति प्रतिपदेक्त एव समासो न गृह्रते,सरूपाणामेकशेषः॑इति लिङ्गात् । किंतु बहुव्रीहिरपी॑ति हरदत्तः ।

Padamanjari

सज्यातिरिति । समानं ज्योतिरस्येति बहुव्रीहिः, यस्मिञ्ज्योतिष आदित्ये नक्षत्रे वा उपनिपतितमानस्यास्तमयादनुवर्तमानमाशौचं सज्योतिरित्युच्यते, सरुपाणामेकशेषः, स्थानान्ताद्विभाषा, सस्थानेन इति निर्धेशाद्बहुव्रीहावप्ययं सभावो भवति, न तु पूर्वोपरप्रथमचरमजघन्यसमान इति प्रतिपदोक्त एव तत्पुरुषे ॥

Prakriyasarvasvam

एषु समानस्य सः । सज्योतिः । सजनपदः । सरात्रिः । सवयाः । सवचन इत्यादि । सर्वत्र बहुव्रीहिः कर्मधारयो वेति हरः ।।

Sutra Prayogas

  • सान्द्रसुधासवर्णा (शिशुपालवधम्): ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु इत्यादिना समानस्य सादेशः।