63084: समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु =========================================== **Padacheda:** समानस्य | S | 6 | 1 | छन्दसि | S | 7 | 1 | अमूर्ध-प्रभृति-उत्-अर्केषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- स is substituted for समान् in the छन्दस् (Vedas), but not before 1. मूर्धन् 2. प्रभृति and 3. उदर्क। Vasu English Translation ------------------------ स is substituted for समान् in the छन्दस् (Vedas), but not before 1. मूर्धन् 2. प्रभृति and 3. उदर्क। Thus अनुभ्राता सगर्भ्यः, अनुसखा सयूथ्यः, योनः सनूत्यः (See (4.4.14)). समानो गर्भः = सगर्भः, तत्र भवः = सगर्भ्यः formed by यन् affix (4.4.114). But समानमूर्द्धा, समानप्रभृतयः, समानोदर्काः ॥ This substitution takes place in secular literature also, as सपक्षः, साधर्म्यम्, सजातीयः &c. Kashika ------- स इति वर्तते। समानस्य स इत्ययमादेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्जयित्वा। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं० ४.२०)। अनु॒ सखा॒ सयू॑थ्यः (मा०सं० ४.२०)। यो नः॒ सनु॑त्यः (ऋ० २.३०.९)। समानो गर्भः सगर्भः, तत्र भवः सगर्भ्यः। **सगर्भसयूथसनुताद् यन्** (४.४.११४) इति यन् प्रत्ययः। अमूर्धप्रभृत्युदर्केष्विति किम्? समानमूर्धा। समानप्रभृतयः। समानोदर्काः। समानस्येति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते। तेन सपक्षः, साधर्म्यम्, सजातीय इत्येवमादयः सिद्धा भवन्ति॥ Siddhanta Kaumudi ----------------- समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे सगर्भसयूथसनुताद्यत् (SK3401) अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥ Balamanorama ------------ **समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु** - समानस्य । नतु मूर्धादिष्विति । मूर्धन्, प्रभृति, उदर्क — एषु परेषु नेत्यर्थः । सगभ्र्य इति । समाने गर्भे भव इत्यर्थः । सयूथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समाने नुते भव इत्यर्थः । सर्वत्र 'तद्धितार्थ' इति समासे समानस्य सभावः । समानमूर्धेति । समानो मूर्धा यस्येति विग्रहः । समानप्रभऋतय इति । समानः प्रभृतिराद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समान उदर्को येषामिति विग्रहः । तैत्तिरीयेसजूरृतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुदैः, सजूरादित्यैः, सजूर्विऔर्देवैः, सजूर्देवैः सजूर्देवैर्वयोनाधैरग्नये त्वा वैआआनरायाइआनाध्वर्यु सादयतामिह त्वा॑ इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजूरृतुभिः, सजूर्विधाभिरित्ययमाद्यवयवः, सजूर्देवैर्वयोनाधैरित्यन्तावयवश्च समानः, सजूर्वसुभिरित्यादिपञ्चानामेकैकस्य क्रमेणैकैकस्मिन्मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-योगो विभज्यत इति । तथा चसमानस्य सः स्या॑दिति वाक्यान्तरं संपद्यते । तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः ।सपक्ष इति । समानः पक्षो यस्येति विग्रहः । साधम्र्यमिति । समानो धर्मो यस्य स सधर्मा । समानस्य सभावः । तस्य भावः साधम्र्यम् । ब्राआहृणादित्वात्ष्यञ् । सजातीयमिति । समाना जातिर्यस्येति विग्रहः । समानस्य सभावः ।जात्यान्ताच्छ बन्धुनी॑ति च्छः । इत्यादीति । 'सग्राम' इत्यादिसङ्ग्रहः । योगविभागस्य भाष्याऽदृष्टत्वाद्युक्त्यन्तरमाह — अथवेति । तेनेति । तेन=सदृशब्देन बहुव्रीहिरित्यन्वयः । तथा च वोपसर्जनस्ये॑ति सहस्य सभाव इति भावः । ननु तर्हिं समानः पक्षो यस्येति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह — अस्वपद इति । वृत्तावेव सहशब्दः सदृशवचन इति भावः । Tattvabodhini ------------- **समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु** - योगो विभज्यत इति । एतदर्थमेव च्छान्दसमपिसमानस्यच्छन्दसी॑ति सूत्रमिहोपन्यस्तमिति भावः । बहुब्राईहिरिति । तेनवोपसर्जनस्ये॑ति सहस्य सभावः प्राप्नोतीति भावः । Padamanjari ----------- समानस्येति योगविभाग इति । अपर आह - सहशब्दः सदृशवचनोऽस्ति, यथा - सदृशः सख्या ससखीति, तस्यायमस्वपदिविग्रहो बहुव्रीहिः - समानो धर्मोऽस्य, समानः पक्षोऽस्य, समाना जातिरस्य वोपसर्जनस्य इति सभावः । समानशब्दस्य तु समानजातीय इत्यादि भवति । योगविभागे तु तस्य नित्यत्वान्नैतत्सिध्यति । अत । व भाप्यवार्तिकयोर्योगविभागस्य नोपन्यास इति ॥