63067: अरुर्द्विषदजन्तस्य मुम् ============================== **Padacheda:** अरुस्-द्विषस्-अजन्तस्य | S | 6 | 1 | मुम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- मुम् is the augment added immediately after the final vowel of अरुस , द्विषत् and of a stem ending in a vowel unless it is an indeclinable, when the word formed by a खित् affix follows. Vasu English Translation ------------------------ मुम् is the augment added immediately after the final vowel of अरुस , द्विषत् and of a stem ending in a vowel unless it is an indeclinable, when the word formed by a खित् affix follows. Thus अरुन्तुदः, द्विषन्तपः, कालिंमन्या &c. See (3.2.35), (3.2.39), (3.2.83). The स् of अरुस् and the त् of द्विषत् are dropped by (8.2.23). Why do we say 'of अरुस् &c'? Observe विद्वन्मन्या ॥ Why do we say 'not an Indeclinable'? Observe दोषामन्यमहः, दिवामन्यारात्रिः ॥ Why do we use the word अन्त in अजन्त, when merely saying अचः would have sufficed by the rule of *tadanta*-*vidhi*? This indicates that the shortening taught in the preceding *sutra* does not debar the मुम् augment, nor does मुम् debar the shortening. So that मुम् is added after the shortening has taken place. Kashika ------- अरुस् द्विषद् इत्येतयोरजन्तानां च खिदन्त उत्तरपदे मुमागमो भवत्यनव्ययस्य। अरुंतुदः। द्विषंतपः। अजन्तानाम् — कालिंमन्या। अरुर्द्विषदजन्तस्येति किम्? विद्वन्मन्यः। अनव्ययस्येत्येव — दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम् ? कृताजन्तकार्य — प्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम्भवति॥ Siddhanta Kaumudi ----------------- अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः । (वार्तिकम्) ॥ वातमजा मृगाः ॥ Laghu Siddhanta Kaumudi ----------------------- अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥ Balamanorama ------------ **अरुर्द्विषदजन्तस्य मुम्** - अरुर्द्विषत् । अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी । 'अलुगुत्तरपदे' इत्यधिकारादुत्तरपदे इति लभ्यते । 'खित्यनव्ययस्य' इत्यतः खितीत्यनुवृत्तम् । कितः प्रत्ययत्वात्तदन्तविधिः । तदाह — खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं ।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी । अज, धेट्, तुद्, जहाति एषां द्वन्द्वात्पञ्चमी । यथासङ्ख्यमन्वयः । वातमजा इति । वातमजन्तीति विग्रहः । सुपो लुकि मुम् । अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह — Tattvabodhini ------------- **अरुर्द्विषदजन्तस्य मुम्** - अरुर्द्विषत् । वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिन्धय इत्यादौ ह्रस्वे कृते मुम्प्रवृत्त्यर्थम् । तथा हि अन्तः शब्दः समीपपरः, अञ्चाऽसावन्तश्चेति विग्रहः । निपातनाद्विशेषणस्य परनिपातः । समीपःखित्यनव्ययस्ये॑ति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते । एवं चजनमेजय॑ इत्यादौस्वतो ह्रस्वेऽपि मुम्सिद्धये प्रथमं खितीति ह्रस्वः प्रवर्तनीय इत्यवधेयम् । Padamanjari ----------- अरुन्तुद इति । विध्वरुषोस्तुदः इति खश्, तुदादित्वाच्छः, सकारात्पूर्वं मुमि कृते सकारस्य संयोगान्तलोपः । द्विषन्तप इति । द्विषत्परयोस्तापे इति खच्, खचि ह्रस्वः, मुमादि पूर्ववत् । विद्वन्मन्य इति । वसुस्रंसुध्वंसु इति दत्वम्, यरोऽनुनासिकेऽनुनासिको वा । अन्तग्रहणमनर्थकम्, वर्णग्रहणे सर्वत्र तदन्तविधेर्भावादित्यत आह अन्तग्रहणमित्यादि । समीपवचनोऽन्तशब्दः, अच्चासावन्तश्चेति अजन्तः, निपातनाद्विशेषणस्य परनिपातः । कः पुनरसौ पूर्वसूत्रे विहितो ह्रस्वः, तेन पूर्वपदस्य तदन्तविधिः एतदुक्तं भवति - योऽयमस्य सूत्रस्य समीपभूतो यः पूर्वसूत्रे विहितो ह्रस्वस्तदन्तस्य मुम् इति, यतो ह्रस्वे कृते मुम् भवतीति । एतेनैदपि निरस्तम् - मुम एव ह्रस्वेन बाधप्रसङ्ग इति । कथं तन्निमितकत्वान्मुमः ह्रस्वनिमितको ह्यएष मुम् भवति । यद्येवम्, स्तन्धयादौ यत्र ह्रस्वो न क्रियते तत्र मुम् न प्राप्नोति किं पुनः कारणमत्र ह्रस्वो न क्रियते प्रयोजनाभावात् । अस्ति प्रयोजनम्, किम् मुम् यथा स्यादिति । इदानीमेव ह्युक्तम् - ह्रस्वनिमितको मुमिति ॥ Nyaas ----- `अरुन्तुदः` इति। अरुस्तुदतीति `विष्वरुषोस्तुदः` (3.2.35) इति खश्? संयोगान्तलोपः, तुदादीत्वाच्छः, अतो गुणे (6.1.94) पररूपत्वम्। `द्विषन्तपः` इति। द्विषन्तं तापयतीति **द्विषत्परयोस्तापेः** (3.2.39) इति खच्, `खचि ह्यसवः` (6.4.94) इति ह्रस्वत्वम्। `विद्वन्मन्यः` इति। विद्वांसमात्मानं मन्यत इति, **आत्ममाने खश्च** (3.2.83) इति खश्, `वसुरुआंसुध्वंस्वनडुहां दः` (8.2.72) इति सकारस्य दकारः, **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति तस्य नकारः। अथान्तग्रहणं किमर्थम्, यावता `येन विधस्तदन्तस्य` (1.1.72) इत्यनेन तदन्तस्यैव भविष्यति? इत्याह - `अन्तग्रहणम्` इत्यादि। कृतमजन्तकार्यं यस्य स कृताजन्तकार्यं आगमी, तस्यैवविधस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थमन्तग्रहणम्। अन्तग्रहणेन हि कार्यान्तरस्यान्तेऽवसाने मुम्? कर्तवय इत्येषोऽर्थः सूच्यते। अतोऽजन्तकार्ये ह्यसवत्वे कृते पश्चान्मुम्? भवति। ननु च मुमा ह्रस्वो न बाध्यत इत्यनेनैव भविष्यतति सोपपतिकोऽयमर्थः प्रतिपादितः, तत्? किमर्थमेतदन्तग्रहणम्? नैतदस्ति; तेन हि निरवकाशाद्? ह्रस्वशासनस्य मुमा ह्रस्वो न बाध्यत इत्येतावन्मात्रं प्रतपादितम्, न तु कृताजन्तकार्यस्य मुम्? भवतीत्येषोऽर्थः, ततः परत्वान्मुमि कृत सत्यनजन्तस्यापि ह्रस्वत्वं प्रसज्येत। अत्र को दोषः? खित्यन्तहरसवभावी नास्तीति। यथा कालिम्मन्य इत्यत्र मुमि कृते सत्यनजन्तस्यापि ह्रस्वत्वं भवति, तथा वाङ्मन्य इत्यत्र स्यादिति। तस्मादन्तग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- अरुर्द्विषतोरजन्तस्य चानव्ययस्य खिदन्त उत्तरपदे मुमागमः स्यात् । अरीन् कम्पयन् अरिमेजयो नृपः । अङ्गं शोभयन्नङ्गमेजयोऽलङ्कारः । Sutra Prayogas -------------- * **अरुन्तुदम्** (रघुवंशम्): `अरुर्द्विषत्-` इत्यादिना मुमागमः। * **प्रियंवदः** (रघुवंशम्): `अरुर्द्विषदजन्तस्य मुम्` इत्यादिना मुमागमः। * **कूलमुद्रुजाः** (रघुवंशम्): `अरुर्द्विषद्-` इत्यादिना मुमागमः। * **परंतपः** (रघुवंशम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **ललाटंतपसप्तसप्तिः** (रघुवंशम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **स्तनंधयप्रीतिम्** (रघुवंशम्): `अरुर्द्विषदजन्तस्य मुम्` इत्यादिना मुमागमः। * **विश्वंभरे** (रघुवंशम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **हृदयंगमाः** (कुमारसम्भवम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **हृदयंगमः** (कुमारसम्भवम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **प्रियंवदां** (कुमारसम्भवम्): `अरुद्विषदजन्तस्य मुम्` इति मुमागमः। * **धनंजयः** (किरातार्जुनीयम्): `अरुर्द्विषदजन्तस्य मुम्` इत्यादिना मुमागमः। * **भयंकरः** (किरातार्जुनीयम्): `अरुर्द्विषदजन्तस्य मुम्` इति मुमागमः। * **नखंपचः** (शिशुपालवधम्): `अरुषिदजन्तस्य मुम्` इति मुमागमः। * **जनङ्गम** (शिशुपालवधम्): `अरुर्द्विषदजन्तस्य मुम्` इत्यादिना मुमागमः। * **वातमजं** (भट्टिकाव्यम्): `अरुर्द्विष` इति मुम्। * **परं-तपः** (भट्टिकाव्यम्): `अरुर्द्विपदजन्तस्य` इति मुम् । * **स्तनं-धाय** (भट्टिकाव्यम्): `अरुर्द्विषदजन्तस्य मुम्` इति स्तनंधाय इत्यत्र मुम्-आगमः। * **नाडिंधमान्** (भट्टिकाव्यम्): `अरुर्द्विषदजन्तस्य मुम्` इति नाडिंधम इत्यत्र मुम्-आगमः।