63063: ङ्यापोः संज्ञाछन्दसोर्बहुलम् =================================== **Padacheda:** ङि-आपोः | S | 6 | 2 | संज्ञा-छन्दसोः | S | 7 | 2 | बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The short is diversely substituted for the feminine affixes ई and आ (ङी and आप्) in a Name and in the छन्दस् (Vedas). Vasu English Translation ------------------------ The short is diversely substituted for the feminine affixes ई and आ (ङी and आप्) in a Name and in the छन्दस् (Vedas). As रेवतिपुत्रः, रोहिणिपुत्रः, भरणिपुत्रः ॥ Sometimes not, as नान्दीकरः, नान्दीघोषः, नान्दीविशालः ॥ So also in the Vedas, as कुमारिदारा, प्रदर्विदा; sometimes the shortening does not take place, as फाल्गुनीपौर्णमासी, जगतीछन्दः ॥ आप् ending words in Name: शिलवहम्, शिलप्रस्थम्; sometimes there is no shortening, as, लोमकागृहम्, लोमकाखण्डम् ॥ So also in the Vedas:- अजक्षीरेण जुहोति, ऊर्णम्रदा पृथिवीं विश्वधायसम् ॥ Sometimes there is no shortening, as, ऊर्णासूत्रेण कवयो वयन्ति ॥ Kashika ------- ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् — रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति — नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ङ्यन्तस्य छन्दसि — कुमारिदा। उर्विदा। न च भवति — फाल्गुनीपौर्णमासी। जगतीछन्दः। आबन्तस्य संज्ञायाम् — शिलवहम्। शिलप्रस्थम्। न च भवति — लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि — अजक्षीरेण जुहोति। ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत (शौ० सं० १८.३.४९)। न च भवति — ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति (मा० सं० १९.८०)॥ Siddhanta Kaumudi ----------------- रेवतिपुत्रः । अजक्षीरम् ॥ Balamanorama ------------ **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** - ङ्यापोः ।उत्तरपदे ह्रस्वः स्या॑दिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरति — अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः ।परमं वा एतत्पयो यदजक्षीर॑मिति तैत्तिरीये । Padamanjari ----------- बहुलग्रहणात्कवचिटुअतरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपतिः, कर्मधारये पुंवद्भावः प्राप्नोति । ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ॥ Nyaas ----- `रेवतिपुत्रः` इति षष्ठीसमासः। एवं `रोहिणिपुत्रः` इत्यादावपि। कुमारीं ददातीति `कुमारिदा`। उर्वी ददातीति `उर्विदा`। **आतोऽनुपसर्गे कः** (3.2.3) । `फाल्गुनी` इत्यादि। फाल्गुनी चासौ पौर्णमासौ चेति फाल्गुनी पौर्णमासौ, `विशेषणम्` (2.1.56) इत्यादिना समासः। एवं `जगतीच्छन्दः` इत्यत्रापि।`शिलवहम्, शिलप्रस्थम्` इति। शिलाशब्दसय वहप्रस्थशब्दाभ्यां `षष्ठी` (2.2.8) इत्यनेन समासः। `लोमकागृहम्, लोमकाषण्डम्` इति। अत्रापि लोमकाशब्दसय गृहषण्डशब्दाभ्याम्। `अजक्षीरेण इति। अत्राप्यजाशब्दस्य क्षीरशब्देन। `ऊर्णमृत्` [`ऊर्णमृदा` -काशिका। ऊर्णम्रवा -पदमञ्जरी] इति। ऊर्णासहिता मृद्? ऊर्णमृत्। शाकपर्थिवादित्वादुत्तरपदलोपी समासः॥ Prakriyasarvasvam ----------------- नाम्नि वेदे च ङ्यापोर्बहुलं ह्रस्वः स्यात् । कालिदासः । स्त्रीणां वनं प्रमदवनम् । मन्दुराजातो मन्दुरजः । बहुलोक्तेः क्वचिन्न । तेन 'जहाहि प्रमदावनमि'ति भट्टिः ॥ Sutra Prayogas -------------- * **वैदेहिबन्धोः** (रघुवंशम्): `ङ्यापोः संज्ञाछन्दसोर्बहुलम्` इति ह्रस्वः। * **रजनि-चर-पतिं** (भट्टिकाव्यम्): `ङयापोः संज्ञाच्छन्दसोर्बहुलम्` इति संज्ञायां ह्रस्वत्वम्।