63059: एकहलादौ पूरयितव्येऽन्यतरस्याम्¶
Padacheda: एकहलादौ | S | 7 | 1 |
पूरयितव्ये | S | 7 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
उद is optionally substituted for उदक before a word beginning with a single consonant and which expresses that which is filled with water.
Vasu English Translation¶
उद is optionally substituted for उदक before a word beginning with a single consonant and which expresses that which is filled with water. Thus उदकुम्भः, or उदककुम्भः, उदपात्रम् or उदकपात्रम् ॥ The word एकहलादि means ‘a word beginning with a single simple consonant’. The rule does not apply to उदकस्थालम् as the second member begins with a conjunct consonant: nor to उदकपर्वतः, as the पर्वतः is not a vessel which is to be filled.
Bhashya¶
एकहलादौ पूरयितव्येऽन्यतरस्याम् (2918) (एकहलादिपदाक्षेपभाष्यम्) एकहलादाविति किमर्थम् ? उदकस्थानम् ॥ उच्यमानेऽप्येतस्मिन् वचनेऽत्र प्राप्नोति, एतदप्येकहलादि । किं कारणम् ? एकैकवर्णवर्त्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम् । एकैकवर्णवर्त्तिनी वाक् न द्वौ युगपदुच्चारयति । तद्यथा - गौरित्युक्ते यावद्गकारे वाक् प्रवर्तते, न तावदौकारे न विसर्जनीये । यावदौकारे, न तावद्गकारे न विसर्जनीये । यावद्विसर्जनीये, न तावद्गकारे नापि औकारे । उच्चरितप्रध्वंसित्वाच्च वर्णानाम् । उच्चरितो वर्णः प्रध्वस्त इति । अथापरः प्रयुज्यते, न वर्णो वर्णान्तरस्य सहायः ॥ (एकहलादिपदप्रयोजनभाष्यम्) एवं तर्हि एकहलादौ इत्युच्यते, सर्वश्चैवैकहलादिः । तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो य एकहलादिरिति । कश्च साधीयः ? यत्रैकं हलमुच्चार्याजुच्यते ॥
Kashika¶
उदकस्योद इति वर्तते। एकोऽसहायः, तुल्यजातीयेनानन्तरेण हला विना, हल् आदिर्यस्योत्तरपदस्य तदेकहलादिस्तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति। उदकुम्भः, उदककुम्भः। उदपात्रम्, उदकपात्रम्। एकहलादाविति किम्? उदकस्थालम्। पूरयितव्य इति किम्? उदकपर्वतः॥
Siddhanta Kaumudi¶
उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥
Balamanorama¶
एकहलादौ पूरयितव्येऽन्यतरस्याम् - एकहलादौ । हस्त्वस्य एकैकवर्मधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं=पूरणार्हं कुम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः ।
Padamanjari¶
एकोऽसहाय इति । यद्ययमेकशब्दः संख्यावचनः स्यात्, तर्ह्येकेत्यनर्थकं स्यात्, न हि द्वौ च बहवौ वा आदिभूताः क्वचित्सम्भवन्ति, तस्मादसहायवचन एकशब्दः । नन्वेवमप्यस्य व्यावर्त्य न सम्भवति, कथम् एकैकवर्णवशवर्तित्वाद्वाचः, यदि ह्यनेकस्य वर्णस्य युगपदुच्चारणं स्यात्त्दा स्थालीशब्दोऽनेकहलादिः, यदि वा क्रमेणोच्चारिता अपि वर्णा अवतिष्ठेरन्, तदापि युगापद्वर्णयोरुपलम्भादादित्वं स्यात्, यत्स्तु नोञ्चारणे युगपदुलब्धौ वा वर्णानां यौगपद्यम्, तस्मादेकस्यैवादित्वमिति न किञ्चिदेकग्रहणेन शक्यं व्यवच्छेतुम् एवं तर्ह्येकग्रहणसामर्थ्याद्विशिष्टमसहायत्वामाश्रीयते । किं पुनस्तत् आनन्तर्यम् । तदेतदाह - तुल्यजातीयेनानन्तरेणेति । हल्ल्वेन तुल्यजातीयत्वेन तुल्यास्थानादिभिर्भिन्नजातीय् व्यवहिते च सद्दायत्वाप्रसिद्धरेवमुक्तम् ॥
Nyaas¶
यद्येकशब्दः सुख्यावचन इह गृह्रते, तदानर्थकं तस्य ग्रहणं स्यात्। न हि क्वचित्? द्वौ बहवो वा हल आदिभूताः सम्भवन्ति, यद्व्यवच्छेदार्थमेकग्रहणं क्रियते। तस्मादसहायवचनोऽयमेकशब्दः। एवमपि यः कश्चिदविशिष्ट एकोऽसहायो हल्? आदिर्यस्य तदेकहलाद्युत्तरपदं गृह्रेत, तदोदकस्थानमित्यत्रापि स्यात्। अत्रापि हि सकारोऽसहाय एव एकहल्। यद्यनेके वर्णा युगपदुच्चार्येरन्, उच्चरिता वा वर्णा न प्रध्वंसेरन्, तदा ससहायस्यापि स्यादादित्वम्। न चैवम्; यतो वर्णा न युगपदुच्चार्यन्ते, ते चोच्चारितप्रध्वसिनः। तस्मान्नास्त्येव क्वचित्? किंचिदनेकहलादित्वं यद्व्यवच्छेदार्थमेकहलादावित्युच्यते। उक्तं चेदम्। अतोऽस्मादेव वचनाद्विशिष्टमात्रैकहलादित्वं विवक्षितमित्येतत्? सर्वं चेतसि कृत्वा तदेव विशिष्टं दर्शयितुमाह -एकोऽसहायः इत्यादि। यश्चातुल्यजातीयेनाप्यचा विनैको हल्? स आदिर्यस्येति तदेकहलादि। तुल्यजातीयेन चव्यवहितेनापि यस्य तदेकहलादीहाश्रीयेत तदा न क्वचित्? स्यात्; तथाविधस्योत्तरपदस्य पूरयितव्यवाचिनोऽभावात्, उच्यते चेदम्। तस्माद्वचनप्रामाण्यात्? तुल्यजातीयेन हलाऽनन्तरेणाव्यवहितेन विना यो वर्तते सोऽसहाय एव#एहैकशब्देनासहायवाचिना विवक्षित इति गम्यते। एवंदिधो हलादिर्यस्य तदेकहालादि। न चैवंविधः स्थानशब्दस्यादिर्हलस्तीत्येकहलादिगरहणेन स्थानशब्दो निवर्तते। पूरियतव्यवाचिनि इति। उदकादिना द्रव्येणान्तव्र्याप्तव्यः पूरयितव्य इत्युच्येत। तद्वक्तुं शीलमस्येति ताच्छीलिको णिनिः॥
Prakriyasarvasvam¶
असंयुक्तहलादौ पूरणीये परे उदो वा स्यात् । उदकुम्भः । उदककुम्भः । एकहलादित्वाभावादुदकस्थाली ॥
Sutra Prayogas¶
रिक्तोदपात्रकरम् (शिशुपालवधम्): एकहलादौ पूरयितव्येऽन्यतरस्याम् इत्युदकशब्दस्योदादेशः।
उदकुम्भ (भट्टिकाव्यम्): एकहलादौ इत्यादिना उदकस्य उदभावः।