63060: मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च =============================================== **Padacheda:** मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु | S | 7 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- उद is optionally substituted for उदक before 1. मन्थ 2. ओदन 3. सक्तु 4. बिन्दु 5. वज्र 5. भार 6. हार 7. वीवध and 8. गाह। Vasu English Translation ------------------------ उद is optionally substituted for उदक before 1. मन्थ 2. ओदन 3. सक्तु 4. बिन्दु 5. वज्र 5. भार 6. हार 7. वीवध and 8. गाह। Thus उदकेन मन्थः = उदमन्थ or उदकमन्थः । उदकेनौदन, उदौदनः or उदकोदनः । सक्तु । उदकेन सक्तुः, उदसक्तु or उदकसक्तुः । बिन्दु । उदकस्य बिन्दुः, उदबिन्दुः or उदकबिन्दुः । वज्र । उदकस्य वज्रः, उदवज्रः or उदकवज्रः । भार । उदकं बिभर्तीति उदभारः or उदकभारः । हार । उदकं हरतीति, उदहारः or उदकहारः । वीवध । उदकस्य वीवध, उदवीवधः or उदकवीवधः । गाह । उदकं गाहत इति, उदगाहः or उदकगाहः ॥ Kashika ------- मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषुत्तरपदेषूदकस्य उद इत्ययमादेशो भवत्यन्यतरस्याम्। उदकेन मन्थ उदमन्थः, उदकमन्थः। ओदन — उदकेनौदन उदौदनः, उदकौदनः। सक्तु — उदकेन सक्तु ः उदसक्तु ः, उदकसक्तु ः। बिन्दु — उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र — उदकस्य वज्र उदवज्रः, उदकवज्रः। भार — उदकं बिभर्तीति उदभारः, उदकभारः। हार — उदकं हरतीति उदहारः, उदकहारः। वीवध — उदकस्य वीवध उदवीवधः, उदकवीवधः। गाह — उदकं गाहत इति उदगाहः, उकदगाहः॥ Siddhanta Kaumudi ----------------- उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥ Balamanorama ------------ **मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च** - मन्थौदन ।उदकस्य उदादेशो वे॑ति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थ उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि-सक्तवः । उदौदन उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः, उदकसक्तवः । उदबिन्दवः, उदकबिन्दवः । उदवज्रः, उदकवज्रः । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाद्याहरणयोग्य उभयतःशिक्यः स्कन्तबाह्रः काष्ठविशेषः । Tattvabodhini ------------- **मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च** - मन्थौद । उदमन्थ इति । द्रवद्रव्यसंस्कृताः सक्तवो — मन्थः ।उदकेन मन्थः॑इति विग्रहेतृतीये॑ति योगविभागात्समास इति हरदत्तः ।इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् । शुक्लीभाव इति ।ऊर्यादिच्विडाचश्चे॑ति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम् ।अभ्रुकुंसादीनामिति वक्तब्यम् । भ्रूकुंस इत्यादि ।भ्रकुंसश्च भुकुंसश्च भ्रूकुंसश्चेति नर्तकः॑इत्यमरः ।तन्द्री प्रमीला भ्रकुटिर्भ्रूकुटिः स्त्रिया॑मिति च । Padamanjari ----------- द्रवद्रव्यसंयुक्ताः सक्तवः - मन्थः । उदकेन मन्थ इति । तृतीयेति योगविभागात्समासः । अथ प्रथ्यत इति क्रियाशब्दः, तदा कर्तृकरणे कृता बहुलम् इत् समासः, सक्त्वौदनाभ्यामन्नेन व्यञ्चनम् इति, बिन्दुवज्रवीवधैः षष्ठीति भारहारगाहैः कर्मण्यणन्तैः उपपदमतिङ् इति समासः, उदकस्य वज्रं क्रूरम्, यदपां क्रूरमिति दर्शनात् । अन्येऽपि यथासम्भवं समासा भवन्त्येव उदकं वज्रमिव भिन्दानो दृदयमसाहिनोदवज्रः ॥ Nyaas ----- द्रवद्रव्यसंपृक्ताः सक्तवो मन्थ इत्युच्यते। तत्र मन्थशब्दोऽयं यद्यव्युत्पन्नं प्रातिपदिकम्, तदोदकेन मन्थ इति `तृतीया` (2.1.30) इति योगविभागात्? समासः। अथ व्युत्पाद्यते -मध्यत इति मन्थः, तदा **कर्तृकरणे कृता बहुलम्** (2.1.32) इति समासः। सकत्वोदनाभ्यां **अन्नेन व्यञ्जनम्** (2.1.34) इति समासः। बिन्दुवज्रवीवधैः `षष्ठी` (2.2.8) इति भारहारगाहैरणन्तैः **उपपदमतिङ्** (2.2.19) इति॥ Prakriyasarvasvam ----------------- एषूदको वा । उदकार्द्रो मन्थः उदमन्थः । उदकसिक्तः उरौदनः । उदसक्तुः । उदविन्दुः । अपां क्रूरांशः उदवज्रम् । वज्रतुल्यं शापाद्युदकं वा । उदभारः । उदहारः । उदवीवधः । उदगाहः । भारादौ कर्मण्यण्, घञ् वा । सर्वं यथासम्भव- मिति हरः । विकल्पादुदकमन्थ इत्यादि ॥ Sutra Prayogas -------------- * **प्रथमोदबिन्दवः** (कुमारसम्भवम्): `मन्थौदनसक्तुबिन्दुवज्रभारहारविवधगाहेषु च` इति उदकशब्दस्य उदादेशः। * **अघघर्मोदकबिन्दुमौक्तिकैः** (शिशुपालवधम्): `मन्थौदन...` इत्यादिना विकल्पादुदकशब्दस्योदादेशाभावः। * **रामाणामनवरतोदगाहभाजाम्** (शिशुपालवधम्): `मन्थौदनसक्तुबिन्दुवज्रभारहारविवधगाहेषु च` इति उदकस्य उदादेशः। * **श्रमोदबिन्दून्** (शिशुपालवधम्): `मन्थौदन-` इत्यादिना उदकस्योदादेशः। * **बृहदमलोदबिन्दुचित्रै** (शिशुपालवधम्): `मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च` इति उदकशब्दस्य उदादेशः।