63058: पेषंवासवाहनधिषु च

Padacheda: पेषम्-वास-वाहन-धिषु | S | 7 | 3 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

उद is substituted for उदक before 1. पेषं 2. वास 3. वाह and 4. धि।

Vasu English Translation

उद is substituted for उदक before 1. पेषं 2. वास 3. वाह and 4. धि। Thus उदपेषं पिनष्टि formed by णमुल् by (3.4.38); उदवासः = उदकस्यवासः, so also उदवाहनः ॥ उदकं धीयतेऽस्मिन् = उदधिः ‘a water jar’.

Kashika

पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति। उदपेषं पिनष्टि। **स्नेहने पिषः**(३.४.३८) इति णमुल्। वास — उदकस्य वास उदवासः। वाहन — उदकस्य वाहन उदवाहनः। उदकं धीयतेऽस्मिन्नित्युदधिः॥

Siddhanta Kaumudi

उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥

Balamanorama

पेषंवासवाहनधिषु च - पेषंवास ।पेष॑मिति णमुलन्तमव्ययम् । तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । ‘स्नेहने पिषः’ इति णमुल् । कषादिषु यताविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति उदकंधीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः । असंज्ञात्वास्फोरणाय ‘घट’ इति विशेष्यम् । समुद्रे त्विति । तत्र उदधिशब्दस्य संज्ञात्वेन ‘उदकस्योदः’ इति पूर्वसूत्रेण सिद्धमित्यर्थः ।

Tattvabodhini

पेषंवासवाहनधिषु च - उदपेषमिति ।स्नेहने पिषः॑इति णमुल् । उदधिरिति । उदकं धीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः ।

Padamanjari

असंज्ञार्यमिदम् । उदधिरिति । कर्मण्यधिकरणे च चेति किप्रत्ययः । घटादिरत्रोदधिः, समुद्रे पूर्वेणैव सिद्धेः ॥

Prakriyasarvasvam

उदपेषं पिनष्टि । ‘स्नेहने पिषः’ इति णमुल् । उदवासः । उदवाहनम् । संज्ञात्वेनोदधिसिद्धावपि धिग्रहणाद् उदधिरयं कुम्भ इत्यनाम्न्यपि ॥

Sutra Prayogas

  • बलोदधौ (किरातार्जुनीयम्): पेषंवासवाहनधिषु च इत्युदकस्योदादेशः।