63057: उदकस्योदः संज्ञायाम्¶
Padacheda: उदकस्य | S | 6 | 1 |
उदः | S | 1 | 1 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
उद is substituted for उदक when the compound is a Name.
Vasu English Translation¶
उद is substituted for उदक when the compound is a Name. Thus उदमेघः ‘a person called Udamegha’, उदवाहः “a person named Udavahah.” The well-known Patronymics from these are औदमेघिः and औदवाहिः ॥ Why do we say ‘when it is a Name’? Observe उदकगिरिः ॥
Vart:- उद is the substitute for उदक when it stands as the second member of a compound and denotes a Name: as, लोहितोदः, नीलोदः, क्षीरोदः ॥
Bhashya¶
उदकस्योदः संज्ञायाम् (2913) (उदादेशाऽधिकरणम्) (6457 उपसंख्यानवार्तिकम् ॥ 1 ॥) - संज्ञायामुत्तरपदस्य च - संज्ञायामुत्तरपदस्येति वक्तव्यम् । इहापि यथा स्यात् - लोहितोदः । क्षीरोद इति ॥
Kashika¶
उदकशब्दस्य संज्ञायां विषय उद इत्ययमादेशो भवत्युत्तरपदे परतः। उदमेघो नाम यस्य औदमेघिः पुत्रः। उदवाहो नाम यस्य औदवाहिः पुत्रः। संज्ञायामिति किम् ? उदकगिरिः॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम्॥ लोहितोदः। नीलोदः। क्षीरोदः॥
Siddhanta Kaumudi¶
उदमेघः ।<!उत्तरपदस्य चेति वक्तव्यम् !> (वार्तिकम्) ॥ क्षीरोदः ॥
Balamanorama¶
उदकस्योदः संज्ञायाम् - उदकस्योदः । उदकशब्दस्य ‘उद’ इत्यादेशः स्यादुत्तरपदे संज्ञायामित्यर्थः । उदमेघ इति । उदकपूर्णमेघसादृश्यात्कस्यचिदियं संज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उदैत्यादेशः स्यात्संज्ञायामित्यर्थः । क्षीरोद इति । क्षीरमुदकस्थानीयं यस्येति विग्रहः । ‘क्षीरोदं सरः’ इति त्वसाध्वे, असंज्ञात्वात् ।
Tattvabodhini¶
उदकस्योदः संज्ञायाम् - उदमेघ इति । सादृश्यात्पुरुषस्येयं संज्ञा ।
Padamanjari¶
उदमेघ इति । षष्ठीसमासः, सादृश्यात्पुरुषस्य संज्ञा, पितुरप्रसिद्धत्वात्पुत्रेण व्यपदेशः। उदकं वहतीति एकर्मण्यण् - उदवाहः । क्षीरोद इति बहुव्रीहिः । अत्र केचिदाहुः - उदकशब्देन समानार्थ उदशब्दोऽस्ति, तथा च संज्ञायामपि प्रयुज्यते - अप्रसन्नोद इति । इदं वचनं संज्ञायामुदकशब्दस्य प्रयोगनिवृत्यर्थमिति । एवं तु वक्ष्यमाणो विकल्पोऽनर्थकः स्यात् ॥
Nyaas¶
उदमेघो नाम यस्योदमेघिः पुत्रः इति। पितुरप्रसिद्धत्वादुदमेघस्य तदपत्येन समाख्यातुं यस्योदमेघिः पुत्र इत्युक्तम्। एतेन यस्यौदमेघिरपत्यं स उदमेघो वेदितव्यमिति दर्शयति। एवम् - उदवाहो नाम यस्यौदवाहिः पुत्रः इत्यत्रापि वेदितव्यम्। उदमेघ इति षष्ठीसमासः, उदकपूर्णो वा मेघः - शाकपार्थिवादित्वा(वा।83) न्मध्यमपदलोपी तत्पुरुषः, उदकं बहतति उदवाहः - कर्मण्यण् (3.2.1) । वक्तवयः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - इहापि स एव चकारोऽनुवर्तते अनुक्तस मुच्चयार्थः, न चान्यत्? समुच्चेतव्यमस्तीति। उदभावमेवासावुदकशब्दस्य संज्ञायां समुच्चिनोति। तत्र कस्य समुच्चिनोति? यस्य न प्राप्नोति। कस्य न प्राप्नोति? उत्तरपदभूतस्य। तेन संज्ञायामुत्तरपदस्याप्युदकशब्दयोद इत्ययमादेशो भवति। लोहितोदः, क्षीरोदः इति बहुव्रीहि-॥
Prakriyasarvasvam¶
उदकस्योत्तरपदे परे नाम्नि उदः स्यात् । उदपानः कूपाख्या । उत्तरपदस्यापि वाच्यः । क्षीरोदः ॥
Vartika¶
उत्तरपदस्येति च वक्तव्यम् ।
Sutra Prayogas¶
क्षीरोदवेलेव (कुमारसम्भवम्): उदकस्योदः संज्ञायाम् इत्युदादेशः।