63058: पेषंवासवाहनधिषु च ======================== **Padacheda:** पेषम्-वास-वाहन-धिषु | S | 7 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- उद is substituted for उदक before 1. पेषं 2. वास 3. वाह and 4. धि। Vasu English Translation ------------------------ उद is substituted for उदक before 1. पेषं 2. वास 3. वाह and 4. धि। Thus उदपेषं पिनष्टि formed by णमुल् by (3.4.38); उदवासः = उदकस्यवासः, so also उदवाहनः ॥ उदकं धीयतेऽस्मिन् = उदधिः 'a water jar'. Kashika ------- पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति। उदपेषं पिनष्टि। **स्नेहने पिषः**(३.४.३८) इति णमुल्। वास — उदकस्य वास उदवासः। वाहन — उदकस्य वाहन उदवाहनः। उदकं धीयतेऽस्मिन्नित्युदधिः॥ Siddhanta Kaumudi ----------------- उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥ Balamanorama ------------ **पेषंवासवाहनधिषु च** - पेषंवास ।पेष॑मिति णमुलन्तमव्ययम् । तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः' इति णमुल् । कषादिषु यताविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति उदकंधीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः । असंज्ञात्वास्फोरणाय 'घट' इति विशेष्यम् । समुद्रे त्विति । तत्र उदधिशब्दस्य संज्ञात्वेन 'उदकस्योदः' इति पूर्वसूत्रेण सिद्धमित्यर्थः । Tattvabodhini ------------- **पेषंवासवाहनधिषु च** - उदपेषमिति ।स्नेहने पिषः॑इति णमुल् । उदधिरिति । उदकं धीयतेऽस्मिन्निति विग्रहः ।कर्मण्यधिकरणे चे॑ति किप्रत्ययः । Padamanjari ----------- असंज्ञार्यमिदम् । उदधिरिति । कर्मण्यधिकरणे च चेति किप्रत्ययः । घटादिरत्रोदधिः, समुद्रे पूर्वेणैव सिद्धेः ॥ Prakriyasarvasvam ----------------- उदपेषं पिनष्टि । 'स्नेहने पिषः' इति णमुल् । उदवासः । उदवाहनम् । संज्ञात्वेनोदधिसिद्धावपि धिग्रहणाद् उदधिरयं कुम्भ इत्यनाम्न्यपि ॥ Sutra Prayogas -------------- * **बलोदधौ** (किरातार्जुनीयम्): `पेषंवासवाहनधिषु च` इत्युदकस्योदादेशः।