63050: हृदयस्य हृल्लेखयदण्लासेषु¶
Padacheda: हृदयस्य | S | 6 | 1 |
हृत् | S | 1 | 1 |
लेख-यत्-अण्-लासेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
हृद् is substituted for हृदय before लेख and the affixes यत् and अण् and before लास।
Vasu English Translation¶
हृद् is substituted for हृदय before लेख and the affixes यत् and अण् and before लास। Thus हृदयं लिखति = हृल्लेखः, हृदयस्य प्रियं = हृद्यम्, हृदयस्येदम् = हार्दम्, हृदयस्य लासो = हृल्लासः ॥ The word लेख is derived by अण् affix from लिख् ॥ Before the word लेख formed by घञ् affix, this substitution does not take place, as हृदयलेखः ॥ The inclusion of लेख in this sutra proves the existence of this maxim “उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्” See (6.3.17).
Bhashya¶
हृदयस्य हृल्लेखयदण्लासेषु - (2909) (हृदादेशाधिकरणम्) (अण्ग्रहणाक्षेपभाष्यम्) यदण्ग्रहणमिदं प्रत्ययग्रहणम्, तत्र प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति यदणन्ते प्राप्नोति ॥ (6452 समाधानवार्तिकम् ॥ 1 ॥) - यदण्ग्रहणे रूपग्रहणं लेखग्रहणात् - यदण्ग्रहणे रूपग्रहणं द्रष्टव्यम् । कुतः ? लेखग्रहणात् । यदयं लेखग्रहणं करोति तत् ज्ञापयत्याचार्यः - न यदणन्ते भवतीति ॥ (सामान्यापेक्षज्ञापकभाष्यम्) अपर आह - अत्यल्पमिदं ज्ञाप्यते, सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणं द्रष्टव्यम् । कुतः ? लेखग्रहणादेव । किं प्रयोजनम् ? कुमारीगौरितरा । घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ॥ (ज्ञापकाक्षेपभाष्यम्) यद्येतत् ज्ञाप्यते, खित्यनव्ययस्य (6.3.66) इति खित्येवानन्तरस्यानव्ययस्य ह्रस्वत्वं प्राप्नोति ॥ (समाधानभाष्यम्) खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा खिदन्ते उत्तरपदे भविष्यति । ननु चायमस्ति - स्तनन्धय इति । अत्रापि शपा व्यवधानम् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव । अथवैतज्ज्ञापयत्याचार्यः - खित्यनन्तरस्य न भवतीति यदयमनव्ययस्येति प्रतिषेधं शास्ति । न हि खित्यनन्तरमव्ययमस्ति ॥
Kashika¶
हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति हृल्लेखः। यत् — हृदयस्य प्रियं हृद्यम्। अण् — हृदयस्येदं हार्दम्। लास — हृदयस्य लासो हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्ताग्रहणस्य॥
Siddhanta Kaumudi¶
हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकम् [(परिभाषा - ) उत्तरपदाधिकारे तदन्तविधिर्नास्ति] इति ॥
Balamanorama¶
हृदयस्य हृल्लेखयदण्लासेषु - ह्मदयस्य । लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः । ह्मदयं लिखतीति ह्मल्लेखः ।कर्मण्यण् । ह्मद्यमिति । ‘ह्मदयस्य प्रियः’ इति यत्प्रत्ययः । हार्दमिति ।तस्येद॑मित्यण्, ह्मदादेशः । हल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याक्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह — ज्ञापकमिति । ज्ञाप्यांशमाह — उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः ।
Tattvabodhini¶
हृदयस्य हृल्लेखयदण्लासेषु - अणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः । नन्वेवं लेखग्रहणमेव व्यर्थं स्यादण्ग्रहणेनैव सिद्धेरत आह - ज्ञापकमिति । अत एव घरूपकल्पेषु तदन्तग्रहणं नेति व्याख्यातम् ।
Padamanjari¶
एअणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ॥
Nyaas¶
ह्मल्लेशः। कर्मण्यण् (3.2.1) ह्मद्यः इति। प्राग्धिताद्? यत् (4.4.75) । हार्दम् इति। तस्येदम् (4.3.120) इति प्राग्दीव्यतोऽण्। ह्मल्लासः इति। लसनं लासः, भावे घञ्। कृद्योगा च षष्ठी समस्यते (वा।86) इति षष्ठीसमासः। लेख इत्यणन्तस्य ग्रहणम् इति। एतच्च कात्ययनप्रभृतीनां प्रमाणभूतानां वचनाद्बिज्ञायते। कात्यायनेनोक्तं यत् - अण्ग्रहणे स्वरूपग्रहणं द्रष्टव्यम्, कृतः? लेखग्रहणात् इति। भाष्यकृताप्युक्तम् - सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे स्वरपग्रहणं द्रष्टव्यम्, कुतः? लेखगरहणात् इति। एतच्च वचनद्वयं कथमुपपद्यते? यदि लेख इत्यणन्तस्य ग्रहणं भवति, नान्यथा। अथ घञन्तस्यापि लेखशब्दस्य ग्रहणं कस्मान्न विज्ञायते? इत्याह - घञि तु इत्यादि। एतदेव इत्यादि। अण्ग्रहणादेव तदन्तस्य लेखशब्दस्य ग्रहणे सिद्धे तस्य पृथग्ग्रहणं क्रियणाणमेतज्ज्ञापयति - उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तं न गृह्रत इति। तेनेह यदण्ग्रहणे घरूपादिसूत्रे च (6.3.42) घादिप्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, न तदन्तविधिरिति भावः॥
Sutra Prayogas¶
क्षणभिन्नसौहृदः (कुमारसम्भवम्): हृदयस्य हृल्लेखयदण्लासेषु इति हृदादेशः।
जातहार्देन (किरातार्जुनीयम्): हृदयस्य हृल्लेखयदण्लासेषु इति हृदादेशः।
हृद्यताम् (किरातार्जुनीयम्): हृदयस्य हृल्लेखयदण्लास- इति हृद्भावः।
सहार्दम् (शिशुपालवधम्): हृदयस्य हृल्लेखयदण्लासेषु इति हृदयस्य हृदादेशः।
बन्धुसौहृदात् (शिशुपालवधम्): हृदयस्य हृल्लेख- इति हृद्भावविधानसामर्थ्यात्।