63050: हृदयस्य हृल्लेखयदण्लासेषु ================================ **Padacheda:** हृदयस्य | S | 6 | 1 | हृत् | S | 1 | 1 | लेख-यत्-अण्-लासेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- हृद् is substituted for हृदय before लेख and the affixes यत् and अण् and before लास। Vasu English Translation ------------------------ हृद् is substituted for हृदय before लेख and the affixes यत् and अण् and before लास। Thus हृदयं लिखति = हृल्लेखः, हृदयस्य प्रियं = हृद्यम्, हृदयस्येदम् = हार्दम्, हृदयस्य लासो = हृल्लासः ॥ The word लेख is derived by अण् affix from लिख् ॥ Before the word लेख formed by घञ् affix, this substitution does not take place, as हृदयलेखः ॥ The inclusion of लेख in this *sutra* proves the existence of this maxim "उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्" See (6.3.17). Bhashya ------- हृदयस्य हृल्लेखयदण्लासेषु - (2909) (हृदादेशाधिकरणम्) (अण्ग्रहणाक्षेपभाष्यम्) यदण्ग्रहणमिदं प्रत्ययग्रहणम्, तत्र प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति यदणन्ते प्राप्नोति ॥ (6452 समाधानवार्तिकम् ॥ 1 ॥) - यदण्ग्रहणे रूपग्रहणं लेखग्रहणात् - यदण्ग्रहणे रूपग्रहणं द्रष्टव्यम् । कुतः ? लेखग्रहणात् । यदयं लेखग्रहणं करोति तत् ज्ञापयत्याचार्यः - न यदणन्ते भवतीति ॥ (सामान्यापेक्षज्ञापकभाष्यम्) अपर आह - अत्यल्पमिदं ज्ञाप्यते, सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणं द्रष्टव्यम् । कुतः ? लेखग्रहणादेव । किं प्रयोजनम् ? कुमारीगौरितरा । घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत ॥ (ज्ञापकाक्षेपभाष्यम्) यद्येतत् ज्ञाप्यते, खित्यनव्ययस्य (6.3.66) इति खित्येवानन्तरस्यानव्ययस्य ह्रस्वत्वं प्राप्नोति ॥ (समाधानभाष्यम्) खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा खिदन्ते उत्तरपदे भविष्यति । ननु चायमस्ति - स्तनन्धय इति । अत्रापि शपा व्यवधानम् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव । अथवैतज्ज्ञापयत्याचार्यः - खित्यनन्तरस्य न भवतीति यदयमनव्ययस्येति प्रतिषेधं शास्ति । न हि खित्यनन्तरमव्ययमस्ति ॥ Kashika ------- हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति हृल्लेखः। यत् — हृदयस्य प्रियं हृद्यम्। अण् — हृदयस्येदं हार्दम्। लास — हृदयस्य लासो हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्ताग्रहणस्य॥ Siddhanta Kaumudi ----------------- हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकम् [(परिभाषा - ) उत्तरपदाधिकारे तदन्तविधिर्नास्ति] इति ॥ Balamanorama ------------ **हृदयस्य हृल्लेखयदण्लासेषु** - ह्मदयस्य । लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः । ह्मदयं लिखतीति ह्मल्लेखः ।कर्मण्यण् । ह्मद्यमिति । 'ह्मदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति ।तस्येद॑मित्यण्, ह्मदादेशः । हल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याक्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह — ज्ञापकमिति । ज्ञाप्यांशमाह — उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः । Tattvabodhini ------------- **हृदयस्य हृल्लेखयदण्लासेषु** - अणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः । नन्वेवं लेखग्रहणमेव व्यर्थं स्यादण्ग्रहणेनैव सिद्धेरत आह - ज्ञापकमिति । अत एव घरूपकल्पेषु तदन्तग्रहणं नेति व्याख्यातम् । Padamanjari ----------- एअणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ॥ Nyaas ----- `ह्मल्लेशः`। **कर्मण्यण्** (3.2.1) `ह्मद्यः` इति। `प्राग्धिताद्? यत्` (4.4.75) । `हार्दम्` इति। **तस्येदम्** (4.3.120) इति प्राग्दीव्यतोऽण्। `ह्मल्लासः` इति। लसनं लासः, भावे घञ्। `कृद्योगा च षष्ठी समस्यते` (वा।86) इति षष्ठीसमासः। `लेख इत्यणन्तस्य ग्रहणम्` इति। एतच्च कात्ययनप्रभृतीनां प्रमाणभूतानां वचनाद्बिज्ञायते। कात्यायनेनोक्तं यत् - `अण्ग्रहणे स्वरूपग्रहणं द्रष्टव्यम्, कृतः? लेखग्रहणात्` इति। भाष्यकृताप्युक्तम् - `सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे स्वरपग्रहणं द्रष्टव्यम्, कुतः? लेखगरहणात्` इति। एतच्च वचनद्वयं कथमुपपद्यते? यदि लेख इत्यणन्तस्य ग्रहणं भवति, नान्यथा। अथ घञन्तस्यापि लेखशब्दस्य ग्रहणं कस्मान्न विज्ञायते? इत्याह - `घञि तु` इत्यादि। `एतदेव` इत्यादि। अण्ग्रहणादेव तदन्तस्य लेखशब्दस्य ग्रहणे सिद्धे तस्य पृथग्ग्रहणं क्रियणाणमेतज्ज्ञापयति - उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तं न गृह्रत इति। तेनेह यदण्ग्रहणे घरूपादिसूत्रे च (6.3.42) घादिप्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, न तदन्तविधिरिति भावः॥ Sutra Prayogas -------------- * **क्षणभिन्नसौहृदः** (कुमारसम्भवम्): `हृदयस्य हृल्लेखयदण्लासेषु` इति हृदादेशः। * **जातहार्देन** (किरातार्जुनीयम्): `हृदयस्य हृल्लेखयदण्लासेषु` इति हृदादेशः। * **हृद्यताम्** (किरातार्जुनीयम्): `हृदयस्य हृल्लेखयदण्लास-` इति हृद्भावः। * **सहार्दम्** (शिशुपालवधम्): `हृदयस्य हृल्लेखयदण्लासेषु` इति हृदयस्य हृदादेशः। * **बन्धुसौहृदात्** (शिशुपालवधम्): `हृदयस्य हृल्लेख-` इति हृद्भावविधानसामर्थ्यात्।