63051: वा शोकष्यञ्रोगेषु¶
Padacheda: वा | S | 0 | 0 |
शोक-ष्यञ्-रोगेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
हृद् is optionally substituted for हृदय before the words शोक and रोग or the affix ष्यङ् follow.
Vasu English Translation¶
हृद् is optionally substituted for हृदय before the words शोक and रोग or the affix ष्यङ् follow. Thus हृच्छोकः or हृदयशोकः, सौहार्द्यम् or सौहृदय्यम् ॥ Here ष्यङ् is added as हृदय belongs to Brahmanadi class (V. I.I24). When हृद् is substituted there is Vriddhi of both the members सु and हृ by (7.3.19). So also हृद्रोगः or हृदयरोगः ॥ All these forms could have been got from हृत् which is a full word sui generis, having the same meaning as हृदय ॥ The substitution taught in this sutra is rather unnecessary.
Kashika¶
शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् — सौहार्द्यम्, सौहृदय्यम्। ब्राह्मणादित्वात् (५.१.१२४) ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (७.३.१९) इत्युभयपदवृद्धिः। रोगे — हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम्॥
Siddhanta Kaumudi¶
ह्रच्छोकः । हृदशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । हृदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥
Balamanorama¶
वा शोकष्यञ्रोगेषु - वा शोक । सौहाद्र्यमिति । ब्राआहृणादित्वाद्भावे ष्यञिह्मद्भगसिन्द्वन्ते॑ इत्युभयपदवृद्धिः । सौह्मदय्यमिति । भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौयस्येति चे॑ति लोपे रूपमिति भावः ।
Tattvabodhini¶
वा शोकष्यञ्रोगेषु - सौहार्यमिति । ब्राआहृणादित्वात्ष्यञ्, ह्मद्भगसिन्ध्वन्ते इत्युबयपदवृद्धिः ।
Padamanjari¶
हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ॥
Nyaas¶
सौहाद्र्यम् इति। शोभनं ह्मदयमस्येति बहुव्रीहिः। ततः ष्यञ्। ह्मदयशब्देन इत्यादि। ह्मदयशब्देनेह समानर्थे ह्मच्छब्दे सति यदा ह्मच्छबदस्य प्रयोगः, तदा ह्मच्छोक इति भविष्यति, यदा ह्मदयशब्दसय तदा ह्मदयशोक इति, ततश्च तेनैव प्रकृत्यन्तरेण सिद्धे विकल्पविधानमिदं न कर्तव्यम्। एतत्? क्रियते तु प्रपञ्चार्थम्। स एव सिद्धप्रयोगोऽनेन सूत्रेण कथ्यत इति॥
Prakriyasarvasvam¶
एषु परेषु हृदयस्य हृद् वा । हृच्छोकः । हृदयशोकः । ब्राह्मणादिष्यञि सौहार्दं सौहृदय्यम् । हृद्रोगः हृदयरोगः ॥