63049: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्

Padacheda: विभाषा | S | 1 | 1 |

चत्वारिंशत्-प्रभृतौ | S | 7 | 1 |

सर्वेषाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The above substitution is the case of all (द्वि , त्रि and अष्टन्) is optional when the word चत्वारिंशत् and the numerals which follow it are the second member.

Vasu English Translation

The above substitution is the case of all (द्वि , त्रि and अष्टन्) is optional when the word चत्वारिंशत् and the numerals which follow it are the second member. Thus द्विचत्वारिंशत् or द्वाचत्वारिंशत्, त्रिपञ्चाशत् or त्र्ययःपञ्चाशत्, अष्टपञ्चाशत् or अष्टापञ्चाशत् ॥ This also before hundred : as, द्विशतम् and अष्टशतम्, त्रिशतम् ॥

Bhashya

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् (2908) (पदकृत्यभाष्यम्) सर्वेषां ग्रहणं किमर्थम् ? चत्वारिंशत्प्रभृतौ सर्वेषां ग्रहणं सर्वेषां विभाषा यथा स्यात्, द्व्यष्टनः - त्रेश्च ॥ नैतदस्ति प्रयोजनम् । प्रकृतं द्व्यष्टनोर्ग्रहणमनुवर्तिष्यते । यदि तदनुवर्तते, त्रेस्त्रयस् - द्व्यष्टनोश्चेति द्व्यष्टनोरपि त्रयश्चादेशः प्राप्नोति । नैष दोषः । मण्डूकगतयोऽधिकाराः । तद्यथा - मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः । (प्रकारान्तरबोधकभाष्यम्) अथवा एकयोगः करिष्यते - द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः, त्रेस्त्रयः । ततः - विभाषा चत्वारिंशत्प्रभृतौ सर्वेषामिति । नैकयोगेऽनुवृत्तिर्भवति । अथवा उभयं निवृत्तं तदपेक्षिष्यामहे ॥

Kashika

चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः सर्वेषां द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद् विभाषा भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक् शतादित्येव — द्विशतम्। अष्टशतम्। त्रिशतम्॥

Siddhanta Kaumudi

द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥

Balamanorama

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् - विभाषा चत्वारिंशत् । व्यवहितस्यापिद्व्यष्टनो॑रित्यस्य सम्बन्धाय — सर्वेषामिति । द्व्यष्टनोस्त्रेश्चेत्यर्थः । तदाह — द्व्यष्टनोस्त्रेश्चेति ।

Padamanjari

सर्वेषाग्रहणमित्यादि । असति हि तस्मिन् अनन्तरस्य त्रेस्त्रयः इत्यस्यैव विकल्पः स्यात् ॥

Nyaas

सर्वग्रहणं द्व्यष्टनोरपि यथा स्यादित्येवमर्थम्; इतरथा हि अनन्तरस्या विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इति त्रेरेव स्यात्। मण्डुकप्लुतिन्यायेन द्व्यष्टन इत्येतदपीहानुवर्तिष्यते, ततोऽयमदोष इति चेत्? एवं तर्हि विस्पष्टार्थं सर्वग्रहणमिति॥

Prakriyasarvasvam

द्व्यष्टनोः त्रेश्चेति सर्वेषां चत्वारिंशदादौ परे पूर्वोक्तं वा स्यात् । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्-त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषुः आत्वत्रयसौ प्राक्छतादेवेष्टौ । द्विशतम् । अष्टशतम् । त्रिसहस्रम् ।।