63023: ऋतो विद्यायोनिसम्बन्धेभ्यः¶
Padacheda: ऋतः | S | 5 | 1 |
विद्या-योनि-सम्बन्धेभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The Genitive 6th-Case-affix is retained after a word ending in ऋ and expressing a relationship through study or blood.
Vasu English Translation¶
The Genitive 6th-Case-affix is retained after a word ending in ऋ and expressing a relationship through study or blood. Thus होतुरन्तेवासिन्, होतुः पुत्रः, पितुरन्तेवासिन् or पितुः पुत्रः ॥ Why do we say “a word ending in ऋ”? Observe आचार्यपुत्रः, मातुलपुत्रः ॥ The relationship through ‘study’ or ‘blood’ should be between the first and the second member of the compound. Therefore, the rule does not apply to होतृधनम्, पितृधनम्, होतृगृहम्, पितृगृहम् ॥
Bhashya¶
ऋतो विद्यायोनिसंबन्धेभ्यः (2882) (6414 उपसंख्यानवार्तिकम् ॥ 1 ॥) - विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् - विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम् । विद्यासंबन्धेभ्यो विद्यासंबन्धेषु यथा स्यात् । योनिसंबन्धेभ्यो योनिसंबन्धेषु यथा स्यात् । व्यतिकरो मा भूत् ॥ अथैषां व्यतिरेकेण भवितव्यम् ? बाढं भवितव्यम् । होतुःपुत्रः, पितुरन्तेवासी ॥
Kashika¶
ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवासी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋत इति किम्? आचार्यपुत्रः। मातुलपुत्रः। विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसंबन्धवाचिन्येवोत्तरपदे यथा स्याद्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम्। होतृगृहम्। पितृगृहम्॥
Siddhanta Kaumudi¶
विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ।<!विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् !> (वार्तिकम्) ॥ नेह । होतृधनम् ॥
Balamanorama¶
ऋतो विद्यायोनिसम्बन्धेभ्यः - ऋतो विद्यमा । एकत्वे बहुवचनम् ।तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति । अलुक् स्यादिति ।उत्तरपदे परत॑इति शेषः ।विद्यासंबन्धवाचिनमुदाहरति — होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरति — पितुरन्तेवासीति । पितुःपुत्र इति च । ननु ‘होतृधनं’ पितृधन॒मित्यत्राऽप्यलुक् स्यादित्यत आह — विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति ।विद्यायोनिसंबन्धेभ्यः॑ इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः ।होतृधनं॒॑पितृधन॑मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठआ अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव ‘होतुःपुत्र’ इत्यादि सिद्धम् ।
Padamanjari¶
विद्या च योनिश्च विद्यायोनी, अभ्यर्हितत्वाद्विद्यायाः पूर्वनिपातः, तत्कृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, कृतशब्दो गम्यमानत्वान्न प्रयुज्यते । पितुःपुत्र इति । प्रख्यातात्पितुरुत्पन्न इत्यर्थः । विद्यायोनिसम्बन्धेभ्यः पूर्वोतरपदग्रहणमिति । सूत्रे पञ्चमीनिर्देशात्पूर्वपदानामेव विद्यायोनिसम्बन्धवावित्वं लभ्यते, नोतरपदानामथ सप्तमीनिर्देशः क्रियते । उतरपदानामेव लभ्यते, न पूर्वपदानाम् । तस्मादुभयेषामपि तद्वाचित्वेऽयं विधिरिति वक्तव्यमित्यर्थः । अन्यवृत्तिपरत्वाच्चास्य तेषां परस्परव्यतिकरेऽपि भवति - होतुः पुत्रः, पितुरन्तेवासीति ॥
Nyaas¶
विद्या च योनिश्चेति विद्यायोनी, तत्कृतः सम्बन्दो येषां ते विद्यायोनिसम्बन्धाः। कृतशब्दस्य वृत्तावप्रयोगः; गम्यमानार्थत्वात्, यथा - गुडधाना इत्यत्र मिश्रशब्दस्य। ऋतो विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं कर्तव्यम् इति। तदित्यनेन विद्यायोनिसम्बन्धा उभयेऽपि निर्दिश्यन्ते, तेषां पूर्वपदबूतानामुत्तरपदभूतानां च ग्रहणं कर्तव्यम्। गृह्रते येन तत्? ग्रहणम्, येन ते गृह्यन्ते तादृशं व्याख्यानं कर्तव्यमित्यर्थः। किं पुनस्तद्व्याख्यानम्? किमर्थं तत्कर्तव्यम्? इत्याह - विद्यायोनिवाचिन्येव इत्यादि। तत्रेदं व्याख्यानम् - इहोङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामभिप्राया लक्ष्यन्ते, ऋतो विद्यायोनिसम्बन्धेभ्यः इत्येष महान्? सूत्रप्रबन्धः, यदि ह्रविद्यायोनिसम्बन्धवाचिन्युत्तरपदेऽलुगभीष्टः स्यात्, एवं सत्यविद्यायोनिसम्बन्धादित्येवं ब्राऊयात्। अथ वा - सम्बन्धग्रहणमपि न कुर्यात्, न हि किञ्चिदृकारान्तं विद्यावाचि योनिवाचि वाऽसम्बन्धमस्ति, तत्रान्तरेणापि सम्बन्धग्रहणं विद्यायोनिसम्बन्धवाचिन इति विज्ञास्यते, तत्? किं सम्बन्धग्रहणेन! तदेतस्मान्महतः सूत्रप्रबन्धाद्विद्यायोनिसम्बन्धवाचिन्युत्तरपद आचार्यस्यायमलुगभीष्ट इति लक्ष्यत इति। होतुः इति। ऋत उत् (6.1.107) इत्युत्त्वम्, रपरत्वम्, रात्सस्य (8.2.24) इति सकारलोपः॥
Prakriyasarvasvam¶
ऋदन्ताद् विद्यायोनिसम्बन्धवाचिनस्तद्वाचिन्येव परे षष्ठ्या अलुक् स्यात् । होतुःशिष्यः । होतुःपुत्रः । पितुःशिष्यः । पितुःपुत्रः । अन्यस्मिन् परे न । होतृधनम् ॥
Vartika¶
विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् ।