63024: विभाषा स्वसृपत्योः¶
Padacheda: विभाषा | S | 1 | 1 |
स्वसृ-पत्योः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
The Genitive 6th-Case-affix is optionally elided after a stem ending in ऋ when 1. स्वसृ and 2. पितृ follow.
Vasu English Translation¶
The Genitive 6th-Case-affix is optionally elided after a stem ending in ऋ when 1. स्वसृ and 2. पितृ follow. Thus मातुःस्वसा or मातुःष्वसा or मातृष्वसा, पितुःस्वसा or पितुःष्वसा or पितृष्वसा ॥ When the affix is elided, then स is invariably changed to ष by (8.3.85); and when it is not elided, then the change is optional (8.3.85). So also दुहितुः पतिः or दुहितृपतिः, ननान्दुः पतिः or ननान्दृपतिः ॥
Kashika¶
स्वसृ पति इत्येतयोकरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्य उत्तरस्याः षष्ठ्या विभाषालुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा (८.३.८४) इति नित्यं षत्वम्। यदा त्वलुक् तदा मातुःपितुर्भ्यामन्यतरस्याम् (८.३.८५) इति विकल्पेन षत्वम्। दुहितुः — पतिः, दुहितृपतिः। ननान्दुःपतिः, ननान्दृपतिः॥
Siddhanta Kaumudi¶
ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥
Balamanorama¶
विभाषा स्वसृपत्योः - विभाषा स्वसृपत्योः । ऋदन्तादिति ।विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन॑ इति शेषः । ततश्चभोक्तृस्वसे॑त्यत्र नातिव्याप्तिः ।
Prakriyasarvasvam¶
अनयोः परयोः ऋदन्ताल्लुग्वा स्यात् । होतुःस्वसा, होतृस्वसा । दुहितुःपतिः । दुहितृपतिः ॥ अलुग् गतः । उत्तरपद इति पादान्तं स्थास्यति ॥
Sutra Prayogas¶
पितृष्वस्रे (शिशुपालवधम्): विभाषा स्वसृपत्योः इति विकल्पादलुगभावः।
मातुः स्वसुश्च (भट्टिकाव्यम्): विभाषा स्वसृपत्योः इति पष्ट्या अलुक्।