63023: ऋतो विद्यायोनिसम्बन्धेभ्यः ================================= **Padacheda:** ऋतः | S | 5 | 1 | विद्या-योनि-सम्बन्धेभ्यः | S | 5 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The Genitive 6th-Case-affix is retained after a word ending in ऋ and expressing a relationship through study or blood. Vasu English Translation ------------------------ The Genitive 6th-Case-affix is retained after a word ending in ऋ and expressing a relationship through study or blood. Thus होतुरन्तेवासिन्, होतुः पुत्रः, पितुरन्तेवासिन् or पितुः पुत्रः ॥ Why do we say "a word ending in ऋ"? Observe आचार्यपुत्रः, मातुलपुत्रः ॥ The relationship through 'study' or 'blood' should be between the first and the second member of the compound. Therefore, the rule does not apply to होतृधनम्, पितृधनम्, होतृगृहम्, पितृगृहम् ॥ Bhashya ------- ऋतो विद्यायोनिसंबन्धेभ्यः (2882) (6414 उपसंख्यानवार्तिकम् ॥ 1 ॥) - विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् - विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम् । विद्यासंबन्धेभ्यो विद्यासंबन्धेषु यथा स्यात् । योनिसंबन्धेभ्यो योनिसंबन्धेषु यथा स्यात् । व्यतिकरो मा भूत् ॥ अथैषां व्यतिरेकेण भवितव्यम् ? बाढं भवितव्यम् । होतुःपुत्रः, पितुरन्तेवासी ॥ Kashika ------- ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवासी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋत इति किम्? आचार्यपुत्रः। मातुलपुत्रः। विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसंबन्धवाचिन्येवोत्तरपदे यथा स्याद्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम्। होतृगृहम्। पितृगृहम्॥ Siddhanta Kaumudi ----------------- विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः । (वार्तिकम्) ॥ नेह । होतृधनम् ॥ Balamanorama ------------ **ऋतो विद्यायोनिसम्बन्धेभ्यः** - ऋतो विद्यमा । एकत्वे बहुवचनम् ।तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति । अलुक् स्यादिति ।उत्तरपदे परत॑इति शेषः ।विद्यासंबन्धवाचिनमुदाहरति — होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरति — पितुरन्तेवासीति । पितुःपुत्र इति च । ननु 'होतृधनं' पितृधन॒मित्यत्राऽप्यलुक् स्यादित्यत आह — विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति ।विद्यायोनिसंबन्धेभ्यः॑ इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः ।होतृधनं॒॑पितृधन॑मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठआ अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव 'होतुःपुत्र' इत्यादि सिद्धम् । Padamanjari ----------- विद्या च योनिश्च विद्यायोनी, अभ्यर्हितत्वाद्विद्यायाः पूर्वनिपातः, तत्कृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, कृतशब्दो गम्यमानत्वान्न प्रयुज्यते । पितुःपुत्र इति । प्रख्यातात्पितुरुत्पन्न इत्यर्थः । विद्यायोनिसम्बन्धेभ्यः पूर्वोतरपदग्रहणमिति । सूत्रे पञ्चमीनिर्देशात्पूर्वपदानामेव विद्यायोनिसम्बन्धवावित्वं लभ्यते, नोतरपदानामथ सप्तमीनिर्देशः क्रियते । उतरपदानामेव लभ्यते, न पूर्वपदानाम् । तस्मादुभयेषामपि तद्वाचित्वेऽयं विधिरिति वक्तव्यमित्यर्थः । अन्यवृत्तिपरत्वाच्चास्य तेषां परस्परव्यतिकरेऽपि भवति - होतुः पुत्रः, पितुरन्तेवासीति ॥ Nyaas ----- विद्या च योनिश्चेति विद्यायोनी, तत्कृतः सम्बन्दो येषां ते विद्यायोनिसम्बन्धाः। कृतशब्दस्य वृत्तावप्रयोगः; गम्यमानार्थत्वात्, यथा - गुडधाना इत्यत्र मिश्रशब्दस्य। `ऋतो विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणं कर्तव्यम्` इति। तदित्यनेन विद्यायोनिसम्बन्धा उभयेऽपि निर्दिश्यन्ते, तेषां पूर्वपदबूतानामुत्तरपदभूतानां च ग्रहणं कर्तव्यम्। गृह्रते येन तत्? ग्रहणम्, येन ते गृह्यन्ते तादृशं व्याख्यानं कर्तव्यमित्यर्थः। किं पुनस्तद्व्याख्यानम्? किमर्थं तत्कर्तव्यम्? इत्याह - `विद्यायोनिवाचिन्येव` इत्यादि। तत्रेदं व्याख्यानम् - इहोङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामभिप्राया लक्ष्यन्ते, `ऋतो विद्यायोनिसम्बन्धेभ्यः` इत्येष महान्? सूत्रप्रबन्धः, यदि ह्रविद्यायोनिसम्बन्धवाचिन्युत्तरपदेऽलुगभीष्टः स्यात्, एवं सत्यविद्यायोनिसम्बन्धादित्येवं ब्राऊयात्। अथ वा - सम्बन्धग्रहणमपि न कुर्यात्, न हि किञ्चिदृकारान्तं विद्यावाचि योनिवाचि वाऽसम्बन्धमस्ति, तत्रान्तरेणापि सम्बन्धग्रहणं विद्यायोनिसम्बन्धवाचिन इति विज्ञास्यते, तत्? किं सम्बन्धग्रहणेन! तदेतस्मान्महतः सूत्रप्रबन्धाद्विद्यायोनिसम्बन्धवाचिन्युत्तरपद आचार्यस्यायमलुगभीष्ट इति लक्ष्यत इति। `होतुः` इति। `ऋत उत्` (6.1.107) इत्युत्त्वम्, रपरत्वम्, `रात्सस्य` (8.2.24) इति सकारलोपः॥ Prakriyasarvasvam ----------------- ऋदन्ताद् विद्यायोनिसम्बन्धवाचिनस्तद्वाचिन्येव परे षष्ठ्या अलुक् स्यात् । होतुःशिष्यः । होतुःपुत्रः । पितुःशिष्यः । पितुःपुत्रः । अन्यस्मिन् परे न । होतृधनम् ॥ Vartika ------- विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् ।