63022: पुत्रेऽन्यतरस्याम्

Padacheda: पुत्रे | S | 7 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The Genitive 6th-Case-affix is optionally retained when insult is meant when पुत्र follows.

Vasu English Translation

The Genitive 6th-Case-affix is optionally retained when insult is meant when पुत्र follows. Thus दास्याः पुत्रः or दासीपुत्रः, वृषल्याः पुत्रः, or वृषलीपुत्रः ॥ But when insult is not meant we have ब्राह्मणीपुत्रः ॥

Kashika

पुत्रशब्द उत्तरपद आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्या अलुग् भवति। दास्याःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः, वृषलीपुत्रः। आक्रोश इत्येव — ब्राह्मणीपुत्रः॥

Siddhanta Kaumudi

षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥

Balamanorama

पुत्रेऽन्यतरस्याम् - पुत्रेऽन्यतरस्यां । निन्दायामिति । ‘आक्रोशे’ इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् ‘आनङृतः’ इत्यत्र भाष्ये ।

Prakriyasarvasvam

क्षेपे द्योत्ये पुत्रे परे षष्ठ्या अलुग्वा स्यात् । दास्याःपुत्रः, दासीपुत्रः ॥